अक्षर आकार:

श्रीखण्डखण्डषट्पदी

Shri Khandakhandashatpadi

श्रीखण्डखण्डषट्पदी

श्रीखण्डखण्डः प्रतिभाति शिल्पिवरेण चित्रीकृतसर्वगात्रः । लताविकारैरपि पक्षिशाखामृगैश्च सुग्रीवपुरीव रम्या ॥ १॥ कीशावृतत्वेन विभासमानः श्रीखण्डखण्डः कृतचित्रशिल्पः । विभाति मच्चेतसि नूनमद्य लङ्केव शाखामृगसन्निरुद्धा ॥ २॥ वस्त्वेकमेव प्रतिभाति नाने- त्यारम्भणादिश्रुतिसिद्धमर्थम् । श्रीखण्डखण्डः परिदृश्यमानो लतामृगाकारतया व्यनक्ति ॥ ३॥ शाखामृगाकारतया विभान्ती चातुर्यतः शिल्पिवरस्य नूनम् । श्रीखण्डवृक्षस्य विचित्रमेत- त्कीशस्य शाखामृगतां व्यनक्ति ॥ ४॥ श्रीखण्डखण्डोऽपि मुदं तनोति किं श्रीसमस्तैक्यविबोधमेषः । समीक्षकाय प्रतनोति नूनं श्रीखण्डखण्डो बहुचित्रशिल्पः ॥ ५॥ श्रीखण्डखण्डोऽन्तररूप एव बहिश्च नानाविधरूपभाक्च । विचार्यमाणोत्तरसारबुद्धिं बाह्येषु भावेषु तनोति शीघ्रम् ॥ ६॥ आकण्ठमापीय मरन्दवृन्दं विनिर्गता मद्वदनाब्जमध्यात् । श्रीखण्डखण्डस्य गृहीतुकामा नूनं सुगन्धं वरषट्पदीयम् ॥ ७॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचिता श्रीस्वण्डखण्डषट्पदी सम्पूर्णा ।