अक्षर आकार:

कलहप्रियः नारदः

kalahapriyaH nAradaH

कलहप्रियः नारदः

श्रीगर्ग उवाच - एवं ते व्यासवचनात्सपत्नीका द्विजा नृपाः ॥ १॥ आनेतुं गोमतीतोयं प्रययुर्बद्धपल्लवाः । देवकीं रोहिणीं कुन्तीं गान्धारीं च यशोमतीम् ॥ २॥ पुरस्कृत्य तु जग्राह कुम्भो भैष्म्या युतो हरिः । तथा रामस्तु रेवत्या सस्त्रीका येऽपि भूमिपाः ॥ ३॥ सुवर्णरौप्यकलशैः सपुष्पैश्च सपल्लवैः । रुक्मिण्या सहितं यान्तं कृष्णं दृष्ट्वा समागमे ॥ ४॥ नारदः कलहं कर्तुं सत्यभामागृहं ययौ । दृष्ट्वा चैकां हरेर्भार्यां सम्पृष्टः स तयाब्रवीत् ॥ ५॥ नारद उवाच - आदरं सदने नास्ति सत्राजितसुते तव । गतः कृष्णस्तु रुक्मिण्या चाहर्तुं गोमतीजलम् ॥ ६॥ बहुभिर्याचिता त्वं तु पारिजातकहारिणी । कृष्णसङ्कल्पकरणी मणियुक्ता च मानिनी ॥ ७॥ ईदृशीं त्वां वरारोहां गरुडोपरि गामिनीम् । विहाय भैष्म्या श्रीकृष्णः शोभां द्रष्टुं जगाम ह ॥ ८॥ यस्याः पुत्रश्च प्रद्युम्नो यस्याः पौत्रोऽनिरुद्धकः । सा दर्शयति भो मातर्वार्तां मानं च गौरवम् ॥ ९॥ गर्ग उवाच - इति श्रुत्वा प्राणनाथं रुक्मिण्या सहितं गतम् ॥ १०॥ रुरोद दुःखिता राजन्सत्यभामा रुषान्विता । तदैव कृष्णो भगवाञ्ज्ञात्वा नारदचेष्टितम् ॥ ११॥ सत्यभामागृहं शीघ्रं रुपेणैकेन चागतम् । गत्वा प्रत्याह वचनं सर्वज्ञाता रमेश्वरः ॥ १२॥ न गतोऽहं समाजे वै रुक्मिण्या सहितः प्रिये । आगतो भोजनं कर्तुं गतो रामश्च भार्यया ॥ १३॥ इति तद्वाक्यमाकर्ण्य सत्यभामा मुदं गता । भीतो नारद उत्थाय गेहं चान्यं जगाम ह ॥ १४॥ गत्वा जाम्बवतीगेहं तस्याग्रे सर्वमब्रवीत् । श्रुत्वा हसन्ती सा प्राह मृषा मा वद हे मुने ॥ १५॥ करोति शयनं गेहे श्रीनाथो भोजनान्तरे । इति श्रुत्वा शङ्कितस्तु त्वरं निर्गत्य नारदः ॥ १६॥ मित्रविन्दागृहे गत्वा प्रत्युवाच विलोकयन् । नारद उवाच - न गतासि नृपस्थानं मातर्गेहे स्थितासि किम् ॥ १७॥ आहर्तुं गोमतीतोयं प्रयाति यत्र माधवः । भैष्मीं सत्यां जाम्बवतीं सह नेष्यति तत्र वै ॥ १८॥ मित्रविन्दोवाच - केशवस्य प्रियाः सर्वा गन्तासौ यां विहाय च । सा न जीवति कृष्णस्तु पौत्रं लालयति गृहे ॥ १९॥ ततो मुनिः समुत्थाय सर्वाणि मन्दिराणि च । बभ्राम कृष्णभार्याणां सकृष्णानीत्यमन्यत ॥ २०॥ पुनर्विचार्य देवर्षिर्गोपीनां मन्दिराणि च । प्रययौ कथितुं वार्तां राधिकायै च मानद ॥ २१॥ तत्र दीव्यन्तमक्षैश्च राधया नन्दनन्दनम् । गोपीभिः सहितं वीक्ष्य ऋषिर्गन्तुं मनो दधे ॥ २२॥ तदैव कृष्ण उत्थाय गृहीत्वा पाणिना मुनिम् । तत्रैव स्थापयामास पूजयित्वा यथाविधि ॥ २३॥ श्रीकृष्ण उवाच - किं करिष्यसि विप्रेन्द्र वृथा भ्रमसि मोहितः । गेहे गेहे स्वपत्नीएनां मया त्वं तु विलोकितः ॥ २४॥ मया धृतानि रूपाणि त्वद्भयादृषिसत्तम । नाहं दास्ये दमं तुभ्यं विप्रत्वात्प्रार्थयाम्यहम् ॥ २५॥ सर्वेषां चैव देवोऽहं मम देवाश्च ब्राह्मणाः । ये द्रुह्यन्ति द्विजान्मूढाः सन्ति ते मम शत्रवः ॥ २६॥ ये पूजयन्ति विप्रांश्च मम भावेन भूजनाः । ते भुञ्जन्ति सुखं चात्र ह्यन्ते यास्यन्ति तत्पदम् ॥ २७॥ मायया मम पुर्यां त्वं मोहितश्चापि मा खिदः । सर्वे मुह्यन्ति देवर्षे ब्रह्मरुद्रादयः सुराः ॥ २८॥ इति तद्वाक्यमाकर्ण्य संस्तुतः स महामुनिः । आययौ मण्डपे तूष्णीं भूत्वा ऋत्विग्जनैर्वृते ॥ २९॥ अथ ते गोमतीतीरं जग्मुः कृष्णादयो नृपाः । रुक्मिण्याद्याः स्त्रियश्चैव वादित्रैर्विविधैरपि ॥ ३०॥ नारीणां चैव वृन्देन गायन्तीनां हरेर्यशः । वलयानां नूपुराणां शब्दोऽभून्मधुरध्वनिः ॥ ३१॥ पूजयित्वा जलसुरान्व्यासः सार्द्धं मया मुनिः । कलशं तोयसंयुक्तमनसूयाकरे ददौ ॥ ३२॥ ततश्च जगृहुः कुम्भान् रेवत्याद्याश्च योषितः । नोत्थिताः कलशाः सर्वे कोमलैश्च करैरपि ॥ ३३॥ धारयन्ति कथं कुम्भं पुष्पभारेण पीडिताः । ततश्च जहसू राज्ञो नृपाणां च परस्परम् ॥ ३४॥ कथं यामो यज्ञवाटमित्यूचुः कलशैर्विना । रुक्मिण्याद्याः स्त्रियः सर्वास्ता ऊचुर्मनसा हरिम् ॥ ३५॥ हे श्रीकृष्ण जगन्नाथ भक्तकष्टविनाशन । सबलस्त्वं चक्रधारी ह्यस्मान्पालय सङ्कटे ॥ ३६॥ एवं ब्रुवन्त्यो जगृहुः सकलान्भारवर्जितान् । स्वे स्वे शिरसि सन्धाय संयुक्तैर्मणिमौक्तिकैः ॥ ३७॥ यज्ञवाटं समाजग्मुर्नार्यः शीघ्रं सभर्तृकाः । यत्र भेर्यश्च शङ्खाद्या वाद्यन्ते पणवादयः ॥ ३८॥ आनीय गोमतीतोयं प्रापितास्तत्र ते नृप । श्यामकर्णेन सहिता यत्र वै यादवेश्वरः ॥ ३९॥ इति श्रीगर्गसंहितायां हयमेधखण्डे गोमतीजलानयनं नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ ५५॥ Garga Samhita, Hayamedhakhanda, Adhaya 55 verses 27-65