अक्षर आकार:

क्षमाषोडशिस्तोत्रम्

Kshamashodashistotram

क्षमाषोडशिस्तोत्रम्

श्रीवेदव्यासभट्टार्यपुत्ररत्नैः श्रीवेदाचार्यभट्टैरनुगृहीता श्रीरस्तु । श्रीमते हयग्रीवायनमः । श्रीमते रामानुजाय नमः ॥ यश्चक्रे रङ्गिणस्स्तोत्रं क्षमाषोडशिनामकम् । वेदव्यासस्य तनयं वेदाचार्यं तमाश्रये ॥ श्रीरङ्गेश! यया करोषि जगतां सृष्टिप्रतिष्ठाक्षयान् अत्रामुत्र च भोगमक्षयसुखं मोक्षं च तत्तत्तृषाम् । त्वत्स्वातन्त्र्यमपोह्य कल्पितजगत्क्षेमाऽतिहृद्या स्वतः क्षान्तिस्ते करुणासखी विजयतां क्षेमाय सर्वात्मनाम् ॥ १॥ पापानां प्रथमोऽस्म्यहं भवति चेच्छास्त्रं प्रमाणं परं श्रीरङ्गेश ! न विद्यतेऽत्र विशयस्सन्त्येव ते साक्षिणः । पृष्ट्वा तानधुना मयोदितमिदं सत्येन गृह्येत चेत् सत्यं ह्युक्तमिति क्षमस्व भगवन् सर्वं तदस्मत्कृतम् ॥ २॥ त्वत्क्षान्तिः खलु रङ्गराज ! महती तस्याः पुनस्तोषणे पर्याप्तं न समस्तचेतनकृतं पापं ततो मामकम् । लक्ष्यं नेति न मोक्तुमर्हसि यतः कुत्रापि तुल्यो मया नान्यस्सिद्ध्यति पापकृत् तदधुना लब्धं तु नोपेक्ष्यताम् ॥ ३॥ पुण्यं पापमिति द्वयं खलु तयोः पूर्वेण यत्साध्यते तत्त्वद्विस्मृतिकारकं तनुभृतां रङ्गेश! सञ्जायते । पाश्चात्यस्य तु यत्फलं तदिह ते दुःखच्छिदः स्मारकं तेनानेन कृतं तदेव शिशुनेत्यस्मत्कृतं क्षम्यताम् ॥ ४॥ पुण्यं यत्तव पूजनं भवति चेत् तत्कर्तुरिष्टे कृते तत्स्याद्रङ्गपते! कृतप्रकृतिकृतं सर्वेऽपि तत्कुर्वते । पापं चेदपराध एव भवतस्तत्कर्तृसंरक्षणे क्षान्तिस्ते निरुपाधिका निरुपमा लक्ष्येत तत् क्षम्यताम् ॥ ५॥ न द्वित्राणि कृतान्यनेन निरयैर्नालं पुनः कल्पितैः पापानामिति मत्कृते तदधिकान् कर्तुं प्रवृत्ते त्वयि । तेभ्योऽप्यभ्यधिकानि तान्यहमपि क्षुद्रः करोमि क्षणात् तद्यत्नस्तव निष्फलः खलु भवेत् तत्ते क्षमैव क्षमा ॥ ६॥ सम्भूयाखिलपातकैर्बहुविधं स्वं स्वं फलं दीयतां सर्वं सह्यमिदं मम त्वयि हरे ! जाग्रत्यपि त्रातरि । दुःखाक्रान्तमवेक्ष्य मामिह जनो दुष्टाशयत्स्वद्गुणान् क्षान्त्यादीन् प्रति दुर्वचं यदि वदेत् सोढुं न तच्छक्यते ॥ ७॥ क्षान्तिर्नाम वरो गुणस्तव महाञ्च्छ्रीरङ्गपृथ्वीपते! सोऽयं सन्नपि सापराधनिवहाभावे न विद्योतते । तस्मान्नैकविधापराधकरणे निष्ठावता नित्यशः प्राप्नोत्येष मया प्रकाशमतुलं प्राप्स्याम्यहं च प्रथाम् ॥ ८॥ मत्पापक्षपणाय योजयसि चेद्घोरेण दण्डेन मां रङ्गाधीश्वर! केवलाघकरणाद्दुःखं मम स्यान्महत् । तद्द्रष्टुर्भवतोऽपि दुःखमतुलं घोरं दयालो! भवेत् तस्मात् तेऽपि सुखायमत्कृतमिदं सर्वं त्वया क्षम्यताम् ॥ ९॥ देव ! त्वां शरणं प्रपन्नमपि मां दुःखान्यनन्याश्रयं बाधन्ते यदि सर्वपापनिवहात् त्वां मोक्ष- यिष्याम्यहम् । इत्युक्तं तव वाक्यमर्थविधुरं जायेत यद्वा भवान् तत्राशक्त इति प्रथेत हि ततो मां रक्षतु त्वत्क्षमा ॥ १०॥ न त्वं क्षाम्यसि चेदिदं मम कृतं नास्त्यत्र काचित्क्षतिः पूर्वं यत्समभूत् तदेव हि पुनर्जायेत तज्जायताम् । यद्वा स्यादधिकं च सोऽपि सुमहान् लाभोऽस्तु मे तादृशः स्वामिन् ! दासजनस्तवायमधिकं स्वैरेण दूरीभवेत् ॥ ११॥ सोऽहं क्षुद्रतया जुगुप्सिततमं दुष्कर्म नित्यं स्मरन् कुर्वन् काममशुद्धरीतिरभवं श्रीरङ्गपृथ्वीपते! । एतत्ते महतो विशुद्धमनसा स्मर्तुं न युक्तं खलु क्षान्त्या विस्मर तत्ततोऽहमसुखान्मुक्तो भवेयं सुखी ॥ १२॥ तत्तत्कर्मफलानुरूपमखिलो लोकस्त्वया सृज्यते तस्मात्कर्मवशंवदत्वमधिकं वक्तुं तवापि क्षमम् । श्रीरङ्गेश्वर ! तत्प्रशान्तिविधये क्षान्त्या निराकृत्य मे सर्वं पातकमाशु दर्शय भवत्स्वातन्त्र्यमत्यङ्कुशम् ॥ १३॥ श्रीरङ्गेश ! वचो मदीयमधुना व्यक्तं त्वया श्रूयतां पुण्यं तत्फलसङ्गमात्रविरहाद्भूयो न मां प्राप्नुयात् । पापं नैव तथा फलं वितनुते शक्यं न तद्वारणं तत्क्षान्त्या तव शक्यमेव तदियं सद्यस्त्वया कल्प्यताम् ॥ १४॥ श्रीरङ्गेश्वर! पुण्यपापफलयोः स्वाधीनतां कुर्वतोः सर्वेषां सुखदुःखयोः स्वयमहं मग्नाशयो मामपि । स्मर्तुं न प्रभवामि किं पुनरहो त्वामन्तरन्तः स्थितं तत्ते त्वं क्षमया निरस्य कुरु मे त्वद्ध्यानयोग्यां दशाम् ॥ १५॥ अल्पं चेदनवेक्षणीयसरणावारोप्यतां मत्कृतं किञ्चिद्भूरि भवेदिदं यदि गुरून् संप्रेक्ष्य मे त्यज्यताम् । यद्वाऽनन्तमनन्तवैभवजुषो रङ्गक्षमावल्लभ! त्वत्क्षान्त्याः खलु लक्ष्यतामनुगुणा- मानीयतां तत्त्वया ॥ १६॥ सन्त्यक्तसर्वविहितक्रियमर्थकाम- श्रद्धालुमन्वहमनुष्ठितनिन्द्यकृत्यम् । अत्यन्तनास्तिकमनात्मगुणोपपन्नं मां रङ्गराज! परया कृपया क्षमस्व ॥ १७॥ श्रीमान् कूरान्ववाये कलशजलनिधौ कौस्तुभाभोऽवतीर्णः श्रीवेदव्यासभट्टारकतनयवरो रङ्गराजस्य हृद्यः । वेदाचार्याग्र्यनामा विदितगुणगणो रङ्गिणः स्तोत्रमेतत् चक्रे नित्याभिजप्यंसकलतनुभृतां सर्वपापापनुत्त्यै ॥ १८॥ इति क्षमाषोडशीस्तोत्रं समाप्तम् ।