अक्षर आकार:

कृत्वा नवदृढसङ्कल्पम्

Kritva Navadridhasankalpam

कृत्वा नवदृढसङ्कल्पम्

कृत्वा नवदृढसङ्कल्पं वितरन्तो नवसन्देशं घटयामो नव सङ्घटनं रचयामो नवमितिहासम् ॥ नवमन्वन्तरशिल्पिनः राष्ट्रसमुन्नतिकाङ्क्षिणः त्यागधनाः कार्यैकरताः कृतिनिपुणाः वयमविषण्णाः ॥ १॥ भेदभावनां निरासयन्तः दीनदरिद्रान् समुद्धरन्तः दुःखवितप्तान् समाश्वसन्तः कृतसङ्कल्पान् सदा स्मरन्तः ॥ २॥ प्रगतिपथान्नहि विचलेम परम्परां संरक्षेम समोत्साहिनो निरुद्वेगिनो नित्यनिरन्तरगतिशीलाः ॥ ३॥ - श्री जनार्दन हेगडे