अक्षर आकार:

कृषकः

Krishaka

कृषकः

(गीतिका) (मात्रासमकजाति) जयतु कर्षको भारत-त्राता, अन्न-धान्य-धन जीवन-दाता । शान्त-साधकः प्रतिपल योद्धा कृति-तति-रक्त-दोष-संशुद्धा ॥ जयतु०॥ शीत-ग्रीष्म-भय-संशय-मुक्तः, शक्तिशालि-वृषभ-द्वय-युक्तः । आत्मत्यागरतिरन्न-प्रदाता, भारत-भू-हित-जीवन-दाता ॥ जयतु०॥ कर्मरतः कृषि-कर्म-प्रवीणो दैन्य शोक-संशोषण-क्षीणः । लोक-रक्षको लोक शोषितः पौर-रक्षकः पौर-भक्षितः ॥ जयतु०॥ मान-लोभ-मद-दोष-वर्जितः, शिक्षित-शासक-वर्ग-तजितः । सकल-लोक-सस्यान्न-प्रदाता सततमभाव-दैन्य-सन्धाता ॥ जयतु०॥ क्लान्ति श्रान्ति-भय-क्षोभ-विमुक्तः, पौर शान्ति-सुख-वैभव रिक्तः । अज्ञानान्ध-प्रसारण-युक्तः, ज्ञान-दीधितेर्गौरव मुक्तः ॥ जयतु०॥ त्याग-तपस्या-संयम-मूर्तिः दुःख-द्वन्द्व-सहनाऽश्रित-शक्तिः । ताप-शीत-वर्षा-भय-मुक्तः, निज-कृषि-कर्मणि प्रतिपल-युक्तः ॥ जयतु०॥ भारत-भूमि कृषक-निर्भरा, कृषक-पोषिता, कृषकैर्गुप्ता । कृषक-पोपणे भारत-पुष्टिः कृषक-पीडने- भारत-पीडा ॥ जयतु०॥ बीज-खाद्य-सुविधा तु समस्ता भारत-ग्रामे प्रतिपदमिष्टा । धान्यवृद्धिरिह देश-समृद्धिः सस्यवृद्धिरिह गौरव-वृद्धिः ॥ जयतु०॥ ग्राम शोषणं दीन-शोषणं, कृपक-शोषणं भारत-दुःखम् । कृषेरुन्न्तिः भारत-वृद्धिः, कृषेर्विकासो जनता- हासः ॥ जयतु०॥ कृषक-गौरवं प्रतिपद रम्यं कृषक-समृद्धिः भारत-वृद्धिः । कृषक-सुरक्षा भारत-रक्षा कृषक-विभूतिः भारत-भूति ॥ जयतु०॥