अक्षर आकार:

कामनापञ्चकम्

Kamanapanchakam

कामनापञ्चकम्

योऽत्रावतीर्य शकलीकृतदैत्यकीर्त- इर्योऽयं च भूसुरवरार्चित-रम्यमूर्तिः । तद्दर्शनोत्सुकधियां कृततृप्तिपूर्तिः सीतापतिर्जयति भूपतिचक्रवर्ती ॥ १॥ ब्राह्मी मृतेत्यविदुषामपलापमेतत् सोढुं न चाऽर्हति मनो मम निःसहायम् । वाच्छाम्यनुप्लवमतो भवतः सकाशा- च्छ्रुत्वा तवैव करुणार्णवनामराम ॥ २॥ देशद्विषोऽभिभवितुं किल राष्ट्रभाषा श्रीभारतेऽमरगिरं विहितुं खरारे । याचामहेऽनवरतं दृढसङ्घशक्तिं नूनं त्वया रघुवरेण समर्पणीया ॥ ३॥ त्वद्भक्तिभावितहृदां दुरितं द्रुतं वै दुःखं च भो यदि विनाशयसीह लोके । गोभूसुरामरगिरां दयितोऽसि चेत्वं नून तदा तु विपदं हर चिन्तितोऽद्य ॥ ४॥ बाल्येऽपि पितृवचसा निकषा मुनीशान् गत्वा रणेऽप्यवधि येन च ताटिकाऽऽख्या । निर्भर्त्सिताश्च जगतीतलदुष्टसङ्घाः श्रीर्वेदवाक्प्रियतमोऽवतु वेदवाचम् ॥ ५॥ इति कामनापञ्चकं सम्पूर्णम् ।