अक्षर आकार:

कामाख्यदोषविवरणम्

kAmAkhyadoShavivaraNam

कामाख्यदोषविवरणम्

दोषेषु प्रथमः कामो विविच्य विनिरूप्यते । यस्मिहत्पद्यते तस्य नाशकः सर्वथा मतः ॥ १॥ विषयावेशहेतुत्वाद्विक्षेपोत्पत्तिकारणम् । रजोगुणसमुत्पन्नो रजःप्रक्षेपको मुखे ॥ २॥ ब्रह्मावेशविरोधी च सद्बुद्धेर्बाधको मतः । सत्कर्मनाशकः सर्वप्राकृतसक्तिसाधकः ॥ ३॥ चित्ताशुद्धिनिदानत्वाच्चिदुत्पत्तौ च बाधकः । भक्तिमार्गमहाद्वेष्टा वैराग्याभावसाधनात् ॥ ४॥ सर्वत्रापरितोषश्चानेन लोभसमुद्भवात् । यथाकथञ्चित् साम्मुख्येन्द्रियवैमुख्यकारकः ॥ ५॥ कामलोभौ हरिप्राप्तिप्रतिबन्धकपर्वतौ । तावुल्लङ्घ्य न शक्रोति गन्तुं कृष्णान्तिकं जनः ॥ ६॥ संसारमोहहेतुत्वान्मनोदूषणसाधनम् । अतः सेवाविरोधी च यतः सा मानसी मता ॥ ७॥ निरोधस्य महाञ्छत्रुरन्यस्फूर्तिकरो यतः । गुणगानसपत्नोऽपि न रोचन्ते गुणा यतः ॥ ८॥ वैराग्यसाधकाः सर्वे कामिनस्ते कथं प्रियाः । अत एव हि दृश्यन्ते गुणश्रवणवैरिणः ॥ ९॥ क्रोधः स्वकार्यकरणाल्लोभः प्राप्त्यापि शाम्यति । घृतहोमे वह्निरिव कामो भोगेन वर्धते ॥ १०॥ कामेन नाशितमतिः प्रतिषिद्धे प्रवर्तते । अगम्यागमने चौर्ये तथैवाभक्ष्यभक्षणे ॥ ११॥ यत उत्पद्यते क्रोधो महदद्रोहसमुद्भवः । लोभोऽपि जायते तस्मात्स चार्थविषये भवेत् ॥ १२॥ सोऽर्थः पञ्चदशानर्थमूलं तत्र प्रवर्तते । कामेनैव हि कार्पण्यं कामिनीषु सतां मतम् ॥ १३॥ प्रार्थयन्ति यतस्तुच्छां प्रवेश्य वदने करम् । प्रियव्रतसुतो राजा भ्रष्टः कामेन सत्फलात् ॥ १४॥ आग्नीधो विषयावेशादूर्वशीलोकमापितः । कामेन काश्यपो दैत्योत्पादने हेतुतां गताः ॥ १५॥ निवृत्तसन्ध्यानियमः पत्नीप्रार्थनमोहितः । कामेन च शिवः कृष्णयुवतीरूपवञ्चितः ॥ १६॥ कामेन नारदः षष्ठिपुत्रानजनयत्स्वतः । गर्वाभावाय हरिणा दत्तः कामो महाशनः ॥ १७॥ कामेन भरतस्यापि हरिणत्त्वं भवान्तरे । पुरञ्जनोऽपि कमने स्त्रीयोनिमुपलब्धवान् ॥ १८॥ कामेन वेदगर्भोऽपि स्वसुतायां तथाऽकरोत् । तेनैव रावणो बुद्धिं रमायामन्यथाऽकरोत् ॥ १९॥ एवं हि बहवो नष्टाः कामेनैव हि साधवः । भक्तिमार्गे विरोधस्तु तत्र कामकृतो महान् ॥ २०॥ कामितः फलवाञ्च्छातः शरणं नैव सिद्‍ध्यति । सापेक्षस्य तु सर्वत्र दुर्लभं हि समर्पणम् ॥ २१॥ तदभावे तदीयत्वं सर्वथैव हि दुर्लभम् । साधारण्येन बुद्धिः स्यात्तेन लीलास्थितेष्वपि ॥ २२॥ कामलेन यथा पीतप्रतीतिरखिले भवेत् । पञ्चाध्याय्यामतः प्रोक्तं हृद्रोगत्त्वं शुकैरपि ॥ २३॥ दोषबुद्धिः कामिनस्तु भवेल्लीलाकृतो हरेः । निबन्धे श्रीमदाचार्यैरत इन्द्रियनिग्रहे ॥ २४॥ अत्यागः सर्वथा प्रोक्तो भगवद्भक्तिसाधकः । कौतुकार्थमपि त्यागो धर्मार्थमपि वर्जितः ॥ २५॥ स्वयमिन्द्रियकार्याणीत्युक्त्या धैर्यविभञ्जनः । विवेकस्य विरोध्येव तदस्फूर्तिकरो यतः ॥ २६॥ आश्रयस्तु कथं सिध्येन्मनोविक्षेपसम्भवात् । भक्तिमार्गोऽपि मूलत्वात्त्यागस्य न हि सिद्‍ध्यति ॥ २७॥ बाह्यपक्षे कृष्णयोगः सर्वथा त्वान्तरे मतः । परं तूभयथा त्यागो मूलमन्त्रं न संशयः ॥ २८॥ कामे सति कथं त्यागः सापेक्षस्य प्रसिद्‍ध्यति । तस्माद्विचार्य तद्रूपं दुरतिक्रमणं स्वतः ॥ २९॥ शरणीकरणीयं श्रीनिजाचार्यपदाम्बुजम् । साधनानामभावेऽपि स्वबलोऽखिलसाधनम् ॥ ३०॥ तत एव त निस्तारो दोषपोषयुतात्मनाम् । नान्या गतिर्गोकुलेशभजनानन्दकाङ्क्षिणाम् ॥ ३१॥ इति श्रीहरिदासविरचितं कामाख्यदोषविवरणं सम्पूर्णम् ।