अक्षर आकार:

कालिदासः जने जने

Kalidasah Jane Jane

कालिदासः जने जने

कालिदासः जने जने कण्ठे कण्ठे संस्कृतं ग्रामे ग्रामे नगरे नगरे गेहे गेहे संस्कृतम् ॥ मुनिजनवाणी कविजनवाणी बुधजनवाणी संस्कृतम् ॥ सरला भाषा मधुरा भाषा दिव्या भाषा संस्कृतम् ॥ मुनिजनवाञ्छा कविजनवाञ्छा बुधजनवाञ्छा संस्कृतम् ॥ जने जने रामायणचरितं प्रियजनभाषा संस्कृतम् ॥ स्थाने स्थाने भारतदेशे सदने सदने संस्कृतम् ॥