अक्षर आकार:

श्रीकालटिक्षेत्रस्तोत्रम्

Shri Kalatikshetrastotram

श्रीकालटिक्षेत्रस्तोत्रम्

अद्राक्षं गुरुवर्यजन्मधरणिं कालट्यभिख्यां महा- मोहध्वान्तनिवारणैकतरणिं संसारसिन्धोर्दृढाम् । नौकां काममुखारिषट्कविपिने दावायमानां मुहु- र्वैराग्यादिसुसस्यपोषणविधौ कादम्बिनीं कामपि ॥ १॥ अद्राक्षं यत्र पूर्णा प्रवहति सततं शैत्यमाधुर्यराज- त्तोया स्वार्णोनिमज्जज्जनततिदुरितौघाशुविध्वंसदक्षा । यत्रार्येशावतारो जगदुपकृतये पूर्वमासीद्धरां तां कालट्याख्यां वहन्तीं बहुजनिरचितापारपुण्याप्यवीक्षाम् ॥ २॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं श्रीकालटिक्षेत्रस्तोत्रं सम्पूर्णम् ।