अक्षर आकार:

जयिनी भव सुरवाणि

Jayini Bhava Suravani

जयिनी भव सुरवाणि

जयिनी भव सुरवाणि स्तवनं तव करवाणि शरणं त्वा करवाणि जगति भव त्वं शुभवाणी ॥ १॥ श्रुतिसुखनिनदे शिवदे कविवर-विलसित-वरदे सर्वाङ्गे च्युतिविधुरे नवरसकलिते मधुरे कामदुघा, त्वं ज्ञानसुधा ॥ २॥ धरसि सनातनधर्मम् जनयसि भाषाजालम् वर्षसि गीतामृतधाराम् वदसि सदा श्रुतिमखिलाम् आह्लादयुता, त्वं वृद्धिमिता ॥ ३॥ - श्री गणपय्यहोळ्ळः