अक्षर आकार:

जयतु सुभाष

Jayatu Subhasha

जयतु सुभाष

(गीतिका) (मात्रासमक जाति) जयतु सुभाषो गुणि-गण- हासो रिपु जन-त्रासो भुवन-विलासः । देश-भक्ति-गुण गौरव-दीप्तो भारत-मातृ-दुःख-सन्तप्तः ॥ जयतु०॥ आत्मत्याग-रुचिरशुचि-विरोद्धा आङ्ग्ल-शत्रु-सन्त्रासक-योद्धा । कुनय-प्रदर्शन शोषण-रोद्धा मातृभूमि-सन्ताप-निरोद्धा ॥ जयतु ॥ त्याग-तपोबल-गौरव पूर्णं क्रान्ति-शौर्य-बल गति-रय-तुर्णम् । स्वाभिमान-ममता-गुण-पूर्णं कृत-रिपु दलन-मान-मद-चूर्णम् ॥ जयतु०॥ भारत-दुःख-ताप-सन्तप्तो दीन-हीन-जनताऽर्ति प्रतप्त । वैदेशिक-शासन-सन्तप्त आत्माहुति-रतिरति-सन्दीप्त ॥ जयतु०॥ क्रान्तिदूत-गरिमाऽमृत-शौण्ड शत्रु सैन्य-सम्मर्दन चण्ड । दुष्ट-दृप्त-जन-धृत-खर-दण्ड मातृभूमि-वरदात्मज-चण्ड ॥ जयतु०॥ हिन्द-सैन्य-संस्थापन-शक्तः अनुपम धीर-कृतावनुरक्तः । जन-सङ्ग्रह-सङ्घर्ष-सुदक्ष, धृत-चितरञ्जनदास-सुपक्ष ॥ जयतु०॥ सदा लोकप्रिय-भारत-नेता 'नेताजी'-प्रिय-पदवी-जेता । अग्रगामि-दल-स्थापन-कर्ता भारत-वसुधोत्पीडन-हर्ता ॥ जयतु०॥ आङ्गल-राज्य-संहार-प्रकेतु भारत-गौरव-रक्षण हेतु । श्रम-दम-त्याग तपोबल-युक्तः, दैन्य-त्रास-भय संशय मुक्तः ॥ जयतु०॥ 'जय हिन्दे'-ति घोष-सजुष्टः, सेनापतिरति-गुण-गण-पुष्टः । भारत-जननी-शोषण-हर्ता मातृभूमि परिपोषण-कर्ता ॥ जयतु०॥ सिंहशक्तिरयममृत-ज्योतिः देशोद्धृति-हित-धृत खर- हेति । ज्ञानपुञ्ज हे ! शक्तिपुञ्ज हे ! भारत-गौरव ! अमृतमूर्तिः ॥ जयतु०॥