अक्षर आकार:

जयतु जननी

Jayatu Janani

जयतु जननी

जयतु जननी जन्मभूमिः पुण्यभुवनं भारतं जयतु जम्बूद्वीपमखिलं सुन्दरं धामामृतम् । पुण्यभुवनं भारतम् ॥ धरित्रीयं सर्वदात्री शस्यसुफला शाश्वती । रत्नगर्भा कामधेनुः कल्पवल्ली भास्वती । विन्ध्यभूषा सिन्धुरशना हिमगिरिशिखा शर्मदा । रम्य-गङ्गा-सङ्गयमुना महानदीह नर्मदा कर्मतपसां सार्थतीर्थं प्रकृतिविभवालङ्कृतम् ॥ जयतु ॥ आकुमारी-हिमगिरेर्नो लभ्यते सा सभ्यता । एकमातुः सुतास्सर्वे भाति दिव्या भव्यता । यत्र भाषा-वेष-भूषा-रीति-चलनैर्विविधता । तथाप्येका ह्यद्वितीया राजते जातीयता । ऐक्य-मैत्री-साम्य-सूत्रं परम्परया सम्भृतम् ॥ जयतु॥ आत्मशिक्षा-ब्रह्मदीक्षा-ज्ञानदीपैरुज्ज्वलम् । योग-भोग-त्याग-सेवा-शान्ति-सुगुणैः पुष्कलम् । यत् त्रिरङ्गं ध्वजं विदधत् वर्षमार्षं विजयते । सार्वभौमं लोकतन्त्रं धर्मराष्ट्रं गीयते । मानविकता-प्रेमगीतं विबुधहृदये झङ्कृतम् ॥ जयतु ॥ - हरेकृष्णमेहेरः