अक्षर आकार:

जयतात् संस्कृतवाणी

Jayatat Samskritavani

जयतात् संस्कृतवाणी

जयतात् संस्कृतवाणी मधुरा भवतात् विश्वृजनादरणीया मञ्जुलभाषिणी चारुविलासिनी कलरवरम्यधुनी ॥ पावन-मुनिजन-कुञ्ज-विहारिणी सुमनोमन्दिर-लास्य-विधायिनी अनुपमसुन्दरी ललितकलावनी वल्मीकभवादि-कवीन्द्रखनी ज्ञानप्रदायिनी रसिकविलासिनी घनविपदुपशमनी ॥ १॥ सत्य-शान्ति-शम-दमोपदेशिनी धर्मकर्मसु धैर्यप्रचोदिनी नीरसभुवने नवरसपूरिणी सपदि जनानां तापनिवारिणी कलिमलहारिणी भवजलतारिणी सरसिजभवरमणी ॥ २॥ - गु. गणपय्यहोळ्ळः