अक्षर आकार:

जय नमो विधिरमणि

Jaya Namo Vidhiramani

जय नमो विधिरमणि

जया नमो विधिरमणि भुवनमोहिनि वाणि अभयदायिनि जननि अव सदा कल्याणि ॥ वन्दामहे नयन-कलित-करुणा-वीचि मन्देह-तिमिर-निर्दलन-सूर्यमरीचि । छन्दोमयि प्रभवसीति मुनिनाऽवोचि इन्दीवराक्षि तनुगात्रि विष्वद्रीचि ॥ भ्राजत्प्रभे त्वमसि कुशलरवये प्राची व्याजाद्विना स्फुरसि कविषु धीनाराची । तेजस्विनां सुमतिमयि विधेहि घृताचि ओजोबलं वितनु सततमस्मद्वाचि ॥ श्रोणीतटे लसति कनकभासुरकाञ्ची पाणौ ध्वनन्मधुर-गीत-चारु-विपञ्ची । एणीदृशां भुवि न कापि तव सध्रीची शोणानि मा कुरु पदानि ते तिर्यञ्चि ॥