अक्षर आकार:

जय जय भारतमातः

Jaya Jaya Bharatamatah

जय जय भारतमातः

रोम - रोम - रत - राष्ट्र - तरङ्गे अङ्गे वङ्गे कलित - कलिङ्गे नहि नहि, सकल - भरतभू - रङ्गे जनयतु झन-झन-झन-झन् - घोषं तव करवाल-निपातः । वृद्धे, प्रौढे, तरुणे, बाले वक्षसि, वदने, बाहौ, भाले सकले देशे, सकले काले वर्षतु भृशं क्रान्ति-जल-धारा विप्लव-जलद-घटातः । विकसतु ममता जने - जने ते वसतु वसन्तो वने - वने ते विलसतु विद्युद् घने - घने ते अपि च, विपक्षि - पक्ष - पटले जायेत हिमानी-पातः । प्रतिजनमस्तु रुची रिपु - कदने जयतु जयस्ते वदने - वदने क्रीडतु ते श्रीः सदने - सदने चत्वारिंशत्कोटिशिरोभिः प्रभवतु ते प्रणिपातः । -स्वर्गीय कविवर श्री श्रीशदत्तशास्त्रिणां आजमगढवास्तव्यानाम् ।