अक्षर आकार:

जय जय भारतदेश

Jaya Jaya Bharatadesha

जय जय भारतदेश

जय जय भारतदेश जय त्वं जय जय भारतदेश । नत्वा रुद्रं कैलासेशं ताण्डवकर्तारं ध्यात्वा रामं धनुर्धारिणं रावणहन्तारं स्मृत्वा कृष्णं चक्रधारिणं कंसच्छेत्तारं प्रणम्य सर्वान् पराक्रमध्वं, घोषयध्वम्, घोषयध्वम् ॥ १॥ जयतु हनूमान् लङ्कादग्धा द्रोणाचलधारी जयतु प्रतापो राणावीरो गिरिकन्दरवासी जयतु शिवाजी, झान्सीलक्ष्मीः देवी रणचण्डी प्रणम्य सर्वान् पराक्रमध्वं, घोषयध्वम्, घोषयध्वम् ॥ २॥ गङ्गा-यमुना-ब्रह्मपुत्रनद-गण्डक-पावनवारि कृष्णा-गोदा-सिन्धु-नर्मदाः तां सरयूं कावेरीं सह्य-सप्तपुट-विन्ध्य-हिमाचलं उन्नतश‍ृङ्गसुशोभं प्रणम्य सर्वान् पराक्रमध्वं, घोषयध्वम्, घोषयध्वम् ॥ ३॥