अक्षर आकार:

जय जननि

Jaya Janani

जय जननि

जय जननि भरत - वसुधे विबुध - सेविते वीरात्म - सन्तान - वृन्दाभिवन्दिते । शिवकलित - कैलासमणि - मुकुट - मण्डिते गङ्गा तरङ्ग - तरलकाऽलङ्कृते मलयजसमीर - मृदुपरिरम्भ - पुलकिते रत्नाकरावद्ध - नवरत्न - मालिके उपनिषदुदीर्ण - चिन्मन्त्र - परिपाविते दिव्यर्षिवय्यैर्निजसुतैर्भाविते विसृमर - प्रेमरस - नर्तित - चराचरे गोविन्दगीतामृते रते शर्म्मदे कबिवरसहस्र - कृत - भवमन्यनान्तरे जात - सारस्वतसार - सान्द्रान्तरे परतन्त्रता - तिमिरमुद्भिद्य भासते स्वातन्त्र्यभानुमान् भूयो नभसि ते जय जननि सादरं त्वामेव मातरं बन्दामहे शिवं देवि ! विन्दामहे । -एन० गोपाल पिल्लै महोदयानां (केरलीय त्रिवेन्द्र नगरस्थ - संस्कृतकलाशालाध्यक्षाणाम्)