अक्षर आकार:

जनहितकरणी भवनिधितरणी संस्कृतिपरम्परा

Janahitakarani Bhavanidhitarani Samskritiparampara

जनहितकरणी भवनिधितरणी संस्कृतिपरम्परा

जनहितकरणी भवनिधितरणी संस्कृतिपरम्परा त्रिभुवनकमनी जगति विजयते भारत-वसुन्धरा ॥ भवकल्याणी परमपुराणी श्रुतिवाणी महिता । भुविविख्याता जगदवदाता दिव्यकला सहिता ॥ दिशिदिशि सुजला प्रतिकणममलाश्यामलसस्यधरा । त्रिभुवनकमनी जगति विजयते भारत-वसुन्धरा ॥ १॥ धवलहिमालय मुकुटाभरणं शिरसा धृतं यया । जलनिधिनूपुरशिञ्चितचरणौ ध्रियते सदा तया ॥ हृदिशुचिसरला मनसि च तरला मानवता मुखरा । त्रिभुवनकमनी सदा विजयते भारत-वसुन्धरा ॥ २॥ नवविज्ञानं गतमज्ञानं प्रतिदिनमत्र धृतम् । गुणसंज्ञानं द्वितसन्धानं सततमिहैव कृतम् ॥ शुभगतिवरणी हितरतिधरणी शुभकर्मसु चतुरा । त्रिभुवनकमनी जगति विजयते भारत-वसुन्धरा ॥ ३॥ प्रकृतिपेशला शुचि सुकोमला मे स्वदेशधरणी । भुवनवन्दिता लोकनन्दिनी विश्वरागकरणी ॥ निजसुतजनपरिपालनचतुरा रिपुकुलजीवहरा । त्रिभुवनकमनी जगति विनयते भारत-वसुन्धरा ॥ ४॥ भुवि निजजननीरक्षाकरणे वयं बद्धकक्षाः। उद्धतरिपुदल शिरः कर्तने वयं सदा दक्षाः॥ नवलसहस्राब्दिं प्रविशते मे जननीगुणमधुरा । त्रिभुवनकमनी जगति विजयते भारत-वसुन्धरा ॥ ५॥ - डाॅ इच्छाराम द्विवेदी ``प्रणव''