अक्षर आकार:

जलभेदः

jalabhedaH

जलभेदः

नमस्कृत्य हरिं वक्ष्ये तद्गुणानां विभेदकान् । भावान् विंशतिधा भिन्नान् सर्वसन्देहवारकान् ॥ १॥ गुणभेदास्तु तावन्तो यावन्तो हि जले मताः । गायकाः कूपसङ्काशा गन्धर्वा इति विश्रुताः ॥ २॥ कूपभेदास्तु यावन्तस्तावन्तस्तेऽपि सम्मताः । कुल्याः पौराणिकाः प्रोक्ताः पारम्पर्ययुता भुवि ॥ ३॥ क्षेत्रप्रविष्टास्ते चापि संसारोत्पत्तिहेतवः । वेश्यादिसहिता मत्ता गायका गर्तसंज्ञिताः ॥ ४॥ जलार्थमेव गर्तास्तु नीचा गानोपजीविनः । हृदास्तु पण्डिताः प्रोक्ता भगवच्छास्त्रतत्पराः ॥ ५॥ सन्देहवारकास्तत्र सूदा गम्भीरमानसाः । सरःकमलसम्पूर्णाः प्रेमयुक्तास्तथा बुधाः ॥ ६॥ अल्पश्रुताः प्रेमयुक्ता वेशन्ताः परिकीर्तिताः । कर्मशुद्धाः पल्वलानि तथाल्पश्रुतिभक्तयः ॥ ७॥ योगध्यानादिसंयुक्ता गुणा वर्ष्याः प्रकीर्तिताः । तपोज्ञानादिभावेन स्वेदजास्तु प्रकीर्तिताः ॥ ८॥ अलौकिकेन ज्ञानेन ये तु प्रोक्ता हरेर्गुणाः । कादाचित्काः शब्दगम्याः पतच्छब्दाः प्रकीर्तिताः ॥ ९॥ देवाद्युपासनोद्भूताः पृष्ट्वा भूमेरिवोद्गताः । साधनादिप्रकारेण नवधाभक्तिमार्गतः ॥ १०॥ प्रेमपूर्त्या स्फुरद्धर्माः स्यन्दमानाः प्रकीर्तिताः । यादृशास्तादृशाः प्रोक्ता वृद्धिक्षयविवर्जिताः ॥ ११॥ स्थावरास्ते समाख्याता मर्यादैकप्रतिष्ठिताः । अनेकजन्मसंसिद्धा जन्मप्रभृति सर्वदा ॥ १२॥ सङ्गादिगुणदोषाभ्यां वृद्धिक्षययुता भुवि । निरन्तरोद्गमयुता नद्यस्ते परिकीर्तिताः ॥ १३॥ एतादृशाः स्वतन्त्राश्चेत्सिन्धवः परिकीर्तिताः । पूर्णा भगवदीया ये शेषव्यासाग्निमारुताः ॥ १४॥ जडनारदमैत्राद्यास्ते समुद्राः प्रकीर्तिताः । लोकवेदगुणैर्मिश्रभावेनैके हरेर्गुणान् ॥ १५॥ वर्णयन्ति समुद्रास्ते क्षाराद्याः षट् प्रकीर्तिताः । गुणातीततया शुद्धान् सच्चिदानन्दरूपिणः ॥ १६॥ सर्वानेव गुणान् विष्णोर्वर्णयन्ति विचक्षणाः । तेऽमृतोदाः समाख्यातास्तद्वाक्पानं सुदुर्लभम् ॥ १७॥ तादृशानां क्यचिद्वाक्यं दूतानामिव वर्णितम् । अजामिलाकर्णनवद्विन्दुपानं प्रकीर्तितम् ॥ १८॥ रागज्ञानादिभावानां सर्वथा नाशनं यदा । तदा लेहनमित्युक्तं स्वानन्दोद्गमकारणम् ॥ १९॥ उद्धतोदकवत्सर्वे पतितोदकवत्तथा । उक्तातिरिक्तवाक्यानि फलं चापि तथा ततः ॥ २०॥ इति जीवेन्द्रियगता नानाभावं गता भुवि । रूपतः फलतश्चैव गुणा विष्णोर्निरूपिताः ॥ २१॥ इति श्रीवल्लभाचार्यविरचितो जलभेदः समाप्तः ।