अक्षर आकार:

जीवनस्य लक्ष्यमेव

Jivanasya Lakshyameva

जीवनस्य लक्ष्यमेव

जीवनस्य लक्ष्यमेव लोकसेवनव्रतम् । सेवया हि जीवनं सार्थकं फलान्वितम् ॥ अन्धकारजीवने दीपमुद्दीपयाम क्लेशबहुलवीथिका कण्टकान्युत्खनाम । त्रस्तदीनबान्धवान् हस्तलम्बमुन्नयाम न्यूनता यत्र यत्र तत्र सत्वरं हि याम ॥ प्रतिजनं प्रतिदिनं ध्येयमारोपयाम श्रद्धया विशुद्धया दीनदेवमर्चयाम । स्वार्थभावनां विना सर्वमपि समर्पयाम जनहितं वरप्रदं हृदिचिरं स्थापयाम ॥ लोकसेवनं ध्रुवं दैवसमाराधनं दीनबन्धुसेवनान्नास्ति परं पुण्यदम् । कार्यतत्परा वयं साधयाम दिग्जयं वर्धतां समेधतां ऋद्धिमद्धिभारतम् ॥