अक्षर आकार:

जीवन्मुक्तस्तोत्रम्

jIvanmuktastotram

जीवन्मुक्तस्तोत्रम्

अखण्डं परमाद्वैतं स्वतन्त्रं परमं शिवम् । सर्वगं सच्चिदानन्दं जीवन्मुक्तं नमाम्यहम् ॥ १॥ निरालम्बं निरातङ्कं द्वैताद्वैतविवर्जितम् । सर्वात्मानं सदा शान्तं जीवन्मुक्तं नमाम्यहम् ॥ २॥ चिन्मयं परमं तीर्थं सुनित्यं नित्यनिर्मलम् । ब्रह्मचित्तं सतां सेव्यं जीवन्मुक्तं नमाम्यहम् ॥ ३॥ सर्वसद्गुणसम्पूर्णं शुद्धसत्त्वमयं शुभम् । जन्ममृत्युजरातीतं जीवन्मुक्तं नमाम्यहम् ॥ ४॥ धन्यं धन्यं सदा धन्यं स्वरूपावस्थितं परम् । सुखरूपं सदा पूर्णं जीवन्मुक्तं नमाम्यहम् ॥ ५॥ द्वेष्यं नास्ति प्रियं नास्ति यस्य नास्ति शुभाशुभम् । स्वार्थहीनं समं शुद्धं जीवन्मुक्तं नमाम्यहम् ॥ ६॥ भवन्ति यस्य कर्माणि लोककल्याणहेतवे । मायातीतं गुणातीतं जीवन्मुक्तं नमाम्यहम् ॥ ७॥ ईश्वरं सर्वविश्वानां सर्वविश्वस्वरूपकम् । सर्वोपाधिविहीनं तं जीवन्मुक्तं नमाम्यहम् ॥ ८॥ चित्स्वभावं स्वतन्त्रं च हेयोपादेयवर्जितम् । निष्कलं परमानन्दं जीवन्मुक्तं नमाम्यहम् ॥ ९॥ नैव निन्दाप्रशंसाभ्यां यस्य विक्रियते मनः । आत्मतृप्तं सदा तुष्टं जीवन्मुक्तं नमाम्यहम् ॥ १०॥ नित्यं जाग्रदवस्थायां सुप्तवद् योऽवतिष्ठते । पुण्यापुण्यविहीनं तं जीवन्मुक्तं नमाम्यहम् ॥ ११॥ माया नास्ति जगन्नास्ति यस्य ज्ञानमहोदधेः । सर्वदोषविनिर्मुक्तं जीवन्मुक्तं नमाम्यहम् ॥ १२॥ रागद्वेषभयादीनामनुरूपं चरन्नपि । अन्तर्व्योमवदाच्छन्नं जीवन्मुक्तं नमाम्यहम् ॥ १३॥ यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते । कुर्वतोऽकुर्वतो वा तं जीवन्मुक्तं नमाम्यहम् ॥ १४॥ यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः । हर्षामर्षभयोन्मुक्तं जीवन्मुक्तं नमाम्यहम् ॥ १५॥ यः समस्तार्थजालेषु व्यवहार्यपि शीतलः । निर्द्वन्द्वं वासनाहीनं जीवन्मुक्तं नमाम्यहम् ॥ १६॥ चैत्यवर्जितचिन्मात्रे पदे परमपावने । अक्षुब्धचित्तं विश्रान्तं जीवन्मुक्तं नमाम्यहम् ॥ १७॥ इदं जगदहं सोऽयं दृश्यजातमवास्तवम् । यस्य चित्ते न स्फुरति जीवन्मुक्तं नमाम्यहम् ॥ १८॥ स्वयमेव स्वयं हंसं स्वयमेव स्वयं स्थितिम् । स्वयमेव स्वयं पश्यन् जीवन्मुक्तं नमाम्यहम् ॥ १९॥ ब्रह्मभूतः प्रशान्तात्मा ब्रह्मानन्दमयः सुखी । स्वच्छरूपो महामौनी जीवन्मुक्तं नमाम्यहम् ॥ २०॥ शुद्धचैतन्यरूपात्मा सर्वसङ्गविवर्जितः । नित्यानन्दः प्रसन्नात्मा जीवन्मुक्तं नमाम्यहम् ॥ २१॥ इति जीवन्मुक्तस्तोत्रं सम्पूर्णम् ।