अक्षर आकार:

जातिसम्बन्धं ब्रह्मवैवर्तपुराणान्तर्गतं

Relations brahmavaivartapurANa

जातिसम्बन्धं ब्रह्मवैवर्तपुराणान्तर्गतं

पिता तातस्तु जनको जन्मदाता प्रकीर्तितः । अम्बा माता च जननी जनयित्री प्रसूरपि ॥ १३९॥ पितामहः पितृपिता तत्पिता प्रपितामहः । अत उर्ध्व ज्ञातयश्च सगोत्राः परिकीर्तिताः ॥ १४० ॥ मातामहः पिता मातुः प्रमातामह् एव च । मातामहस्य जनकस्तत्पिता वृद्धपूर्वकः ॥ १४१ ॥ पितामही पितुर्माता तच्छ्वश्रूः प्रपितामही । तच्छ्वश्रूश्च परिज्ञेया सा वृद्धप्रपितामही ॥ १४२ ॥ मातामही मातृमाता मातृतुल्या च पूजिता । प्रमातामहीति ज्ञेया प्रमातामहकामिनी॥ १४३ ॥ वृद्धमातामही ज्ञेया तत्पितुः कामिनि तथा । पितृभ्राता पितृव्यश्च मातृभ्राता च मातुलः ॥ १४४ ॥ पितृष्वसा पितुर्मातृष्वसा मातुः स्वसा स्मृता । सूनुश्च तनयः पुत्रो दायादश्चाऽत्मजस्तथा॥ १४५ ॥ धनभाग्वीर्यजश्चैव पुंसि जन्ये च वर्तते । जन्यायां दुहिता कन्या चाऽऽत्मजा परिकीर्तिता ॥ १४६ ॥ पुत्रपत्नी वधूर्ज्ञेया जामाता दुहितुः पतिः । पतिः प्रियश्च भर्ता च स्वामी कान्ते च वर्तते ॥ १४७ ॥ देवरः स्वामिनो भ्राता ननान्दा स्वामिनः स्वसा । श्वशुरः स्वामिनस्तातः श्वश्रूश्च स्वामिनः प्रसूः ॥ १४८ ॥ भार्या जाया प्रिया कान्ता स्त्री च पत्नी प्रकीर्तिता । पत्निभ्राता श्यालकश्च स्वसा पत्न्याश्च श्यालिका ॥ १४९ ॥ पत्नीमाता तथा श्वश्रूस्तत्पिता श्वशुरः स्मृतः । सगर्भः सोदरो भ्राता सगर्भा भगिनी स्मृता ॥ १५० ॥ भगिनीजो भागिनेयो भ्रातृजो भ्रातृपुत्रकः । आवुत्तो भगिनीकान्तो भगिनीपतिरेव च ॥ १५१ ॥ श्यालीपतिस्तु भ्राता च श्वशुरैकत्वहेतुना । श्वशुरस्तु पिता ज्ञेयो जन्मदातुः समो मुने ॥ १५२ ॥ अन्नदाता भयत्राता पत्नीतातस्तथैव च । विद्यादाता जन्मदाता पञ्चैते पितरो नृणाम् ॥ १५३ ॥ अन्नदातुश्च या पत्नी भगिनी गुरुकामिनी । माता च तत्सपत्नी च कन्या पुत्रप्रिया तथा ॥ १५४ ॥ मातुर्माता पितुर्माता श्वश्रूःपित्रोः स्वसा तथा । पितृव्यस्त्री मातुलानी मातरश्च चतुर्दश ॥ १५५ ॥ पौत्रस्तु पुत्रपुत्रे च प्रपौत्रस्तत्सुतेऽपि च । तत्पुत्राद्याश्च ये वंश्याः कुलजाश्च प्रकीर्तिताः ॥ १५६ ॥ कन्यापुत्रश्च दौहित्रस्तत्पुत्राद्याश्च बान्धवाः । भागिनेयसुताद्याश्च पुरुषा बान्धवाः स्मृताः ॥ १५७ ॥ भ्रातृपुत्रस्य पुत्राद्यास्ते पुनर्ज्ञातयः स्मृताः । गुरुपुत्रस्तथा भ्राता पोष्यः परमबान्धवः ॥ १५८ ॥ गुरुकन्या च भगिनी पोष्या मातृसमा मुने । पुत्रस्य च गुरुर्भ्राता पोष्यः सुस्निग्धबान्धवः ॥ १५९ ॥ पुत्रस्य श्वशुरो भ्राता बन्धुर्वैवाहिकः स्मृतः । कन्यायाः श्वशुरे चैव तत्संबन्धः प्रकीर्तितः ॥ १६० ॥ गुरुश्च कन्यकायाश्च भ्राता सुस्निग्धबान्धवाः । गुरुश्वशुरभ्रातृणां गुरुतुल्यः प्रकीर्तितः ॥ १६१ ॥ बन्धुता येन सार्धं च तन्मित्रं परिकीर्तितम् । मित्रं सुखप्रदं ज्ञेयं दुःखदो रिपुरुच्यते ॥ १६२ ॥ बान्धवो दुःखदो दैवान्निःसंबन्धोऽसुखप्रदः । संबन्धास्त्रिविधाः पुंसां विप्रेन्द्र जगतीतले ॥ १६३ ॥ विद्याजो योनिजश्चैव प्रीतिजश्च प्रकीर्तितः । मित्रं तु प्रीतिजं ज्ञेयं स संबन्धः सुदुर्लभः ॥ १६४ ॥ मित्रमाता मित्रभार्या मातृतुल्या न संशयः । मित्रभ्राता मित्रपिता भ्रातृतातसमौ नृणाम् ॥ १६५ ॥ चतुर्थं नामसंबन्धमित्याह कमलोद्भवः । जारश्चोपपतिर्बन्धुर्दुष्टसंभोगकर्तरि ॥ १६६ ॥ उपपत्न्यां नवज्ञा च प्रेयसि चित्तहारिणी । स्वामितुल्यश्च जारश्च नवज्ञा गृहिणीसमा ॥ १६७ ॥ संबन्धो देशभेदे च सर्वदेशे विगर्हितः । अवैदिको निन्दतस्तु विश्वमित्रेण निर्मितः ॥ १६८ ॥ दुस्त्यजश्च महद्भिस्तु देशभेदे विधीयते । अकीर्तिजनकः पुंसां योषितां च विशेषतः ॥ १६९ ॥ तेजीयसां न दोषाय विद्यमाने युगे युगे ॥ १७० ॥ इति श्रीब्रह्मवैवर्ते महापुराणे सौतिशौनकसंवादे ब्रह्मखण्डे जातिसंबन्धनिर्णयो नाम् दशमोऽध्यायः ॥ १०॥