अक्षर आकार:

जागृहि त्वं भारतीय !

Jagrihi Tvam Bharatiya !

जागृहि त्वं भारतीय !

जागृहि त्वं भारतीय, प्रभातं समुपस्थितं संस्कृतज्ञ ! प्रयामश्चल ! वयंं राष्ट्रे जागृयाम, वयंं राष्ट्रे जागृयाम ॥ बालपिककुलमधुरसंस्कृतपञ्चमस्वरकूजितं श‍ृणु श्रवणसुखप्रदं कवि-सुभाषितकलकिलकिलम् । पश्य विश्वहितास्पदं त्यागारुणं कलयागतं ज्ञानभानुमुपास्महे धियो यो नः प्रेरयेत्, धियो यो नः प्रेरयेत् ॥ विसृज जाड्यं मोहजनितं, त्यजालस्यं मानसं श्रुति-स्मृतिऋषिशङ्खनादैर्दमय मन्देहासुरान् । चिन्तयानन्तं समन्तात् सर्वजीवान्तर्गतं भारतीसुप्रजःकार्यं मातृसेवनमाह्निकं , मातृसेवनमाह्निकम् ॥ मनःक्षेत्रं समं कृत्वा स्नेहलतिका रोप्यतां दयासलिलं पूरयित्वा प्रेमपुष्पं वर्ध्यताम् । संविभज्य ज्ञानसलिलं समैः सह सम्भुज्यतां मुनिवचनकृतिशान्तिधृतिभिः भारतश्रीः साध्यतां, भारतश्रीः साध्यताम् ॥ - दोर्बलप्रभाकरशर्मा