अक्षर आकार:

जागृहि जागृहि भरतपुत्र

Jagrihi Jagrihi Bharata Putra

जागृहि जागृहि भरतपुत्र

जागृहि जागृहि भरतपुत्र लोकमित्र जागृहि क्षात्रतेजसा समेत्य निर्भयं पुरः सरन् मातृसेवनं विधातुमेहि स्वं समर्पयन् ॥ स्मर सदापि हिमगिरेस्तुङ्गतामकम्पितां पश्य वीर वारिधेः परमगम्भीरतां किं नु लोकधारिणी धरणिरेति खिन्नतां द्वन्द्वभावनां विभिन्दि छिन्दि जाड्यजालिकाम् ॥ सत्कुलप्रसूत मौनमास्थितः कुतश्चिरं दीपय ध्येयदीपमात्मनो हृदन्तरे ध्येयसङ्गतैस्समेत्य विचिनु कार्यमार्गं मोहबन्धनं विधूय कुरु समष्टिचिन्तनम् ॥ देशधर्मसंस्कृती रक्षयन् विवर्धयन् पतितमुद्धरन् प्रयाहि जहिहि भेदभावनां चरमलक्ष्यमस्तु जन्मभूमिपरमवैभवं मातृसेवया कुरुष्व सार्थकं स्वजीवनम् ॥ - जनार्दन हेगडे