अक्षर आकार:

हुतात्मान्

Hutatman

हुतात्मान्

(उपजातिवृत्तम्) गायन्तु लोकाः बलिदान-गानं गायन्तु क्रान्तेश्चरितं पवित्रम् । हुतात्मना कीर्ति-सुधा पवित्रा निपीय देशव्रतमाश्रयन्तु ॥ न व्यर्थमेयाद् बलिदान-रक्तं नाऽऽत्माहुते क्रान्तिफलं विनश्येत् । क्रान्ते सुवृक्षः सुषमा समृद्धः पुष्पैः फलैः पुष्टिमियादजस्रम् ॥ हुतात्मना पावनमत्र वृत्त सुधा-रसः जीवन- ज्योतिरेव । देशाभिमानं निज-देश-कीर्तिः स्वातन्त्र्य-भावं प्रथयत्यजस्त्रम् ॥ हुतात्मना यत्र वृता सपर्या, गुणार्चनं कीर्तनमेव नित्यम् । तत्रैव शान्तिः सुख-वृद्धिरिष्टा देशोन्नतिर्गौरव-मान वृद्धिः ॥ यस्मिंस्तु देशे बलिदान-भावो व्याप्तं समाजे युव-नेतृ-वर्गे । तत्रैव कीर्तिनिज-देश-वृद्धिः आत्माभिमानं गुण-गौरवर्द्धिः ॥ हुतात्म-वृत्तं ज्वलितो दवाग्निः हुतात्म-वृत्तं परमं च ज्योतिः । हुतात्म-वृत्तं जनता प्रबोधं हुतात्म-वृत्तं निज-देश-कीर्तिः ॥ यदा यदा देश-समृद्धि नाशः स्वातन्त्र्य-नाशो जन-शोषणं च । तदा तदा देश-स्वतन्त्रतार्थे हुतात्मनामत्र शुभोऽवतारः ॥ हुतात्म-ज्योतिर्जन-शक्ति-दातृ हुतात्म ज्योत्स्ना भय-ताप-मुक्तिः । हुतात्म शक्तिर्निज-देश-शक्तिः हुतात्म-भक्तिर्निज-देश-भक्तिः ॥ ये शूरवीराः बलिदान भावा, देशार्थ सन्त्यक्त-समस्त-वित्ता । ते एव देशोद्धरणे प्रवृत्ता, मातुर्भुवः क्लेश-ततिं हरन्ति ॥ ते क्रान्ति-निष्ठाः जनताऽभिनन्द्या देशार्पिता देश-समाज-वन्द्या । देशस्य स्वातन्त्र्य दवाग्नि-दग्धा ते एव वीराः अमराः सुराश्च ॥