अक्षर आकार:

हिन्दुराष्ट्रसङ्घटकं

Hindurashtrasanghatakam

हिन्दुराष्ट्रसङ्घटकं

हिन्दुराष्ट्रसङ्घटकं सुजनवन्दनीयं केशवं स्मरामि सदा परमपूजनीयम् ॥ राष्ट्रमिदं हिन्दूनां खलु सनातनं विघटनया जातं चिरदास्यभाजनं दुःखदैन्यपीडितमिति पीडितहृदयम् ॥ १॥ भगवद्ध्वज एव राष्ट्रगुरुरयं महान् देशोऽयं खलु देवो जगति महीयान् बोधयन्तमिति तत्त्वं सततस्मरणीयम् ॥ २॥ वीरव्रतमेव परं धर्मनिदानं सुशीलमेव लोकेऽस्मिन् परमनिधानं उपदिशन्तमिति सारं दृढमाचरणीयम् ॥ ३॥ नेतुं निजराष्ट्रमिदं परमवैभवं नयत विलयमन्तर्गतसकलभेदभावम् । सङ्घमन्त्रमिति जपन्तमेकमेषणीयम् ॥ ४॥