अक्षर आकार:

हिमगिरेः श‍ृङ्गम्

Himagireh Shringam

हिमगिरेः श‍ृङ्गम्

हिमगिरेः श‍ृङ्गम्, देवनदीं गङ्गां मनसि निधाय हि अनुभवामः अनुपममुत्तुङ्गं भावम्, अनुपममुत्तुङ्गम् ॥ दिव्य-सनातन-संस्कृतिः यतो हि वेदपुराणानि । हिन्दोरुन्नत्यवनत्योः सदृशानिऽ गिरिशिखराणि । भीरुमनस्स्वपि धीरस्वभावं जनयेयुर्हिमभवनानि ॥ १॥ तं सुरलोकमतिक्रम्य अवतीर्णा या भागीरथी । भारतमातुः सङ्गेन पुण्या जाता भाग्यवती । हिन्दूदेशे प्रतिजनमनसः पावनकारिणी पुण्यवती ॥ २॥ पराजयोऽपि सोपानं धैर्यं विजयस्य निदानं गच्छतु दुःखित-बन्धुभ्यो वक्तुं धैर्य-समाधानम् । मातुः गौरवपरिरक्षायै निष्ठं तनुहृद्धनप्राणम् ॥ ३॥ - नारायणभट्टः