अक्षर आकार:

हिमाद्रिवैभवम्हैमकुण्ड

Himadri Vaibhavam Haimakunda

हिमाद्रिवैभवम्हैमकुण्ड

(हैमकुण्ड पुष्पधाटी च) (गीतिका) (मात्रासमक जाति) जय जय जय हे हैम-सुकुण्डम् । सिक्ख-धर्म-सपूजित-रत्नम् । गुरु-गोविन्द-तपस्या-भूमिः लक्ष्मण-मन्दिर-शोभित-भूमिः ॥ जय०॥ हैमकुण्डमिदमद्भुत-मूर्तिः हिम-गिरि-शोभित-हिममय-मूर्तिः । हिमाच्छादित हिममय-वारिं हैम-प्रपात पात-द्वय-रम्यम् ॥ जय०॥ घाघरियातं कठिने मार्गे, स्थितः सदा हैमावृत एव । सतत हिमानी सुषमा-हृद्यः गुरुद्वाराऽऽश्रित-गौरव-कीर्तिः ॥ जय०॥ मार्गे तत्र सोपान-सहस्रं कठिनं क्लिष्टं सतत-सदुर्गम् । आरुह्यैतदजलमुदारं कुण्डं प्राप्य शान्ति-सुखमेति ॥ जय०॥ गुरु गोविन्दसिंह-यति-र्वयः तीव्रं तप्त्वा तपसा राशिम् । म्लेच्छ-त्रास-जनतापं हर्तुं भुवमापेदे भव-भय-हर्ता ॥ जय०॥ सिक्ख धर्म शुभ तीर्थमुदारं शौर्य-शक्ति-सञ्चार मनोज्ञम् । गुरुद्वारा-दर्शित निजभक्तिः सिक्ख-जनाः श्रयते त्वविरामम् ॥ जय०॥ पावनतीर्थं प्रतिपल रम्यं शान्ति-सद्म चिर-चिन्तन धामम् । जगति तनोतु शान्तिमविरामं आत्मिक-शक्तिं वितरतु लोके ॥ जय०॥ हैमकुण्ड ! तव कीर्तिरुदारा लोके शान्तिः श्रियं वितनोतु । विश्वशान्ति-सन्देशमुदार्यं भ्रातृभाव समता प्रथयैच्च ॥ जय०॥ पुष्प-द्रोणि-रियमक्षयकीर्तिः, गन्धमादनाद्रि सुविख्यातः । कठिन हिमानी-पार व्याप्ता क्रोशद्वय सुम शोभा-राशिः ॥ जय०॥ नैसर्गिक-सुमनोभिरभिख्या लभते मासत्रयं सुषमाढया । पुष्पद्रोणि हृत्वा खेदं कोमलभावं तनुयाच्चित्ते ॥ जय०॥