अक्षर आकार:

हिमाद्रिवैभवं बद्रीनाथः

Himadri Vaibhavam Badrinatha

हिमाद्रिवैभवं बद्रीनाथः

(क० श्रीबद्रीनाथः) (गीतिका) (मात्रासमक जाति) जय जय जय हैमाद्रि-सुकीर्ते ! जय हे भारत-गौरव ! जय हे ! हैम-मुकुट धृत-मञ्जुल-मूर्ते ! रुचिर-हिमानी-संश्रित-भूते ॥ जय०॥ नील-कण्ठ-शिखराञ्चित-भूतिः नर-नारायण गिरि-कृत-कान्तिः । देवालय-सुषमा-श्रित-कीर्तिः ऋषि मुनि-बुध-जन-गीत-सुकीर्तिः ॥ जय०॥ ज्ञान-ज्योत्स्ना-हृत-कलि-पापं शान्ति-सुधा-प्रशमित भव-तापम् । दिव्य-चेतनोत्साह-प्रतापं आध्यात्मिक-शुभ शक्ति-प्रपातम् ॥ जय०॥ तप्त-कुण्ड--जल-गौरव-पूर्णं तप्त-वारि-हृत-दैहिक-तापम् । अलकनन्द-जल-पावित-भूमिः, देवभूमिरयममृत-सूतिः ॥ जय०॥ हिम-द्रोणि जल-पात-सुरम्यं सुरुचि-स्रोतसा कल-रव-हृद्यम् । हिम-वृष्टयाऽऽहृत-मानस तुष्टिः, हैम प्रभा-गरिमाऽञ्चित-सृष्टिः ॥ जय०॥ माणा-नीति-दरी-धृत-शक्तिः शत्रु-संहृति गौरव-गीति । वसुधारा सुप्रपात-सुशोभं, हिममय गिरिगण-गौरव-गण्यः ॥ जय०॥ अलकनन्द-सरितो जनि-भूमिः, बदरी-फल-भर-भूषित-भूमिः । दृपदा पुष्ट्या अनुमित शक्तिः शक्ति-भक्ति-गरिमाञ्चित-सिद्धिः ॥ जय०॥ सतत-पूत जल-स्रोतो-रम्यं सुरभि-समीरण-प्रतिपल हृद्यः । शाप-पाप-भवताप विहीनः आधि व्याधि-सञ्चार विहीनः ॥ जय०॥ बद्रीनाथः ऋषि-मुनि-नाथः सुकृत-कर्मणा प्रतिपल-सार्थः । शान्ते स्थान जागृति-धामः, विश्व शान्ति-परिपूरित-कामः ॥ जय०॥ काष्ठ-पुष्प-फल-तरुतति-रम्यम् हिममय-हिमतति-सततं-हृद्य । भारत-त्राता भारत-भूतिः जयति हिमाद्रि गौरव-मूर्तिः ॥ जय०॥