अक्षर आकार:

गुणगणमण्डित यदुवरलसिता

Gunaganamandita Yaduvaralasita

गुणगणमण्डित यदुवरलसिता

देशगीतिका गुणगणमण्डित-यदुवरलसिता राजति भारतमाता । नीतिबोधकपरात्परगीता बोधकयोगिजनाप्ता ॥ १॥ रम्यसुरालय-सरिदाक्रीडैः भव्यसुललितनिजाङ्गा । अभिमतसिद्धा धन्या शुभफलवृद्धिसुमान्या जीयाद् भारतशोभा ॥ २॥ अनुदिन-मङ्गलदायक-दयया भारतमाता जयतात् । जयतात्, जयतात्, जयतात् निजजनगणमवतात् भारतमाता जयतात् ॥ ३॥ - श्री सीतारामाचार्यः