अक्षर आकार:

ग्रामे नगरे समस्तराष्ट्रे

Grame Nagare Samastarashtre

ग्रामे नगरे समस्तराष्ट्रे

ग्रामे नगरे समस्तराष्ट्रे रचयेम संस्कृतभवनं इष्टिकां विना मृत्तिकां विना केवलसम्भाषणविधया संस्कृतसम्भाषणकलया ॥ शिशुबालानां स्मितमृदुवचने युवयुवतीनां मञ्जुभाषणे वृद्धगुरूणां वत्सलहृदये रचयेम संस्कृतभवनम् ॥ अरुणोदयतः सुप्रभातं शुभरात्रिं निशि संवदेम दिवानिशं संस्कृतवचनेन रचयेम संस्कृतभवनम् ॥ सोदर-सोदरी-भाव-बन्धुरं मातृप्रेमतो बहुजनरुचिरं वचनललितं श्रवणमधुरं रचयेम संस्कृतभवनम् ॥ मूलशिला सम्भाषणमस्य हिन्दुजनैक्यं शिखरमुन्नतं सोपानं श्रवणादिविधानं रचयेम संस्कृतभवनम् ॥ - गु. गणपय्यहोळ्ळः