अक्षर आकार:

ग्रामलक्ष्मी

Grama Lakshmi

ग्रामलक्ष्मी

(गीतिका) (भुजङ्गप्रयातवृत्तम्) इयं ग्रामलक्ष्मीर्मुदं सन्तनोतु इयं ग्रामलक्ष्मीः श्रियं सन्ददातु । क्वचित् पुष्पवृद्धिः क्वचित् सस्य वृद्धिः क्वचिद् धान्यपुष्टिः श्रियं सन्तनोति ॥ इयं०॥ कृषेरुन्नतौ दत्तचित्ता समेऽपि सदा खाद्य-योगो जलादेर्निषेकः । कृमीणां विनाशेन सस्यादि-वृद्धिः मुदं कर्षकाणामजस्रं तनोति ॥ इयं०॥ अविद्याऽन्ध-ग्रस्ताः पुरा शोक-त्रस्ताः क्षुधा रोग ग्रस्ताः मुधा दैन्य ध्वस्ताः । इदानीं नवैर्योजनैः सङ्गतास्ते नव ग्राम लोकाः श्रिया संयुतास्ते ॥ इयं०॥ क्वचित् कूप-योगो नलानां नियोगः क्वचित् कुल्यकाभिर्जलाना निषैकः । क्वचित् क्षारभूमिर्जलैरुर्वराऽऽस्ते क्वचित् चक्रबन्धेन सस्याऽभिवृद्धिः ॥ इयं०॥ क्वचिद् योजना स्वास्थ्य वृद्धयर्थमिष्टा, रुजं ग्रामजानाः क्षयं प्रापयन्ति । रुजा मृत्युयोगः क्षयं याति नित्यं जनाः स्वास्थ्य-लाभेन मोदेन हृष्टाः ॥ इयं०॥ क्वचिद् दृश्यते योजना सन्ततैव कुटीराश्रया वृत्ति-लाभार्थमेव । समे ग्रामजाताः धनं प्राप्य हर्षाद् निजं क्लेशजातं मुदा विस्मरन्ति ॥ इयं०॥ क्वचित् प्रौढ शिक्षा क्वचिद् बाल शिक्षा अविद्याऽन्धकारः हुदो नाशयन्ति । अयं सर्वतो ज्ञान-शिक्षा-प्रसारं शुचः ग्रामजानाः निहन्त्यांशु घोराम् ॥ इयं०॥ पथामापणानां विकासैविवृद्धया पशोः पालनेनाऽर्थं-वृद्धया च ग्रामाः । नवाऽविष्कृतैर्वीजजातैः प्रहृष्टा कृषेरुन्नतिं वीक्ष्य मोदं भजन्ते ॥ इयं०॥ विहायान्य विश्वास-मूला प्रवृत्ती विहायाऽऽश्रयं पारदेश्यं स्वतन्त्रा । जनान्दोलनेनाऽऽत्म-नैर्भैर्य-वृत्त्या मुदं संश्रिता शोक सन्ताप-मुक्ता ॥ इयं०॥ सुखं धान्यवृद्धिर्जनानां समृद्धिः सदा साधुभावाश्रया वृत्तिरिष्टा । प्रिये ग्रामलोके सुखं शान्तिमिष्टा जनानां विकासं प्रमोदं तनोतु ॥ इयं०॥