अक्षर आकार:

गेहे गेहे संस्कृतभाषा भवतात् पुनरपि वाणी

Gehe Gehe Samskritabhasha Bhavatat Punarapi Vani

गेहे गेहे संस्कृतभाषा भवतात् पुनरपि वाणी

गेहे गेहे संस्कृतभाषा भवतात् पुनरपि वाणी । राष्ट्रकुलानां धर्मधराणां ज्ञानवतां कल्याणी ॥ ध्रु॥ दिव्यगीतायाः इमं सन्देशसारं श्रूयताम् । कर्मभोगो निश्चितः सत्कर्मणा पथि गम्यताम् ॥ १॥ दिव्यभारतवर्षमेतत् लोककल्याणे रतम् । धर्ममोक्षार्थाभिकामानां प्रयासे प्रेरितम् ॥ २॥ भ्रातृभावो दृष्यतामिह भारतीये जीवने । सन्तु सर्वे प्राणिनः सुखिनः सदा संवर्धने ॥ ३॥ हिन्दुदेशे वीरपुत्रैः पुण्यपुरूषैर्भूयताम् । न्याय-करूणा-प्रेम-समता-सत्कथासङ्गीयताम् ॥ ४॥ -आचार्य राधाकृष्ण मनोडी