अक्षर आकार:

गङ्गा पुनाति भालं रेवाकटिप्रदेशम्

Ganga Punati Bhalam Reva Kati Pradesham

गङ्गा पुनाति भालं रेवाकटिप्रदेशम्

गङ्गा पुनाति भालं रेवा कटिप्रदेशम् । वन्दे सदा स्वदेशं एतादृशं स्वदेशम् ॥ काशी प्रयाग मथुरावृन्दाटवीविशालाः। द्वारावतीसुकाञ्चीविदिशादितीर्थमालाः॥ सम्भूष्यन्ति कामं यस्य प्रशान्तवेषम् । वन्दे सदा स्वदेशं एतादृशंस्वदेशम् ॥ १॥ सलिलं सुधामधुरितं पवनोऽपि गन्धवाही । चरितं विकल्पकलितं धर्मो दयावगाही ॥ यत्प्राङ्गणं शबलितं कौतूहलैरशेषम् । वन्दे सदा स्वदेशं एतादृशं स्वदेशम् ॥ २॥ गायन्ति यस्य देवाश्शुभगीतकानि नित्यम् । सर्वे भवन्तु सुखिनो यस्यैतदेव कृत्यम् ॥ अभयप्रदोपदेशाः शमयन्ति पापलेशम् । वन्दे सदा स्वदेशं एतादृशं स्वदेशम् ॥ ३॥ अचलो नु देवताऽऽत्मा वसुधाऽपि रत्नगर्भा । कुलिशायते यदस्थि प्रचुरं वनी सुदर्भा ॥ केचिन्नमन्ति गिरिजां केचिच्च शालुवेशम् । वन्दे सदा स्वदेशं एतादृशं स्वदेशम् ॥ ४॥ अद्यापि यस्य नीतिर्विस्मापयत्यनल्पम् । उद्घोष्य विश्वशान्तिं भावञ्च मित्रकल्पम् ॥ वन्दे ध्वजं त्रिवर्णं वन्देऽगृहीतकेशम् । वन्दे सदा स्वदेशं एतादृशं स्वदेशम् ॥ ५॥ -अभिराज डाॅ राजेन्द्र मिश्र