अक्षर आकार:

गणतन्त्र दिवसः

Ganatantra Divasah

गणतन्त्र दिवसः

(गीतिका) गणतन्त्रम् । स्वागतं ते, गणतन्त्रम् । स्वागतं ते । तव गौरवं पुरस्तात् कीर्तिं श्रियं तनोति ॥ गणतन्त्र०॥ राष्ट्रोद्धृतावपूर्वां शक्तिं तनोषि नित्यम् । त्वद्गानमेव ज्योतिः क्रान्तेश्च दाववह्निः ॥ गण०॥ संस्मृत्य गौरवं ते वीराः गुणानुरक्ताः । शक्ताः स्वदेश-भक्ताः शूलिं मुदा श्रितास्ते ॥ गण ॥ त्वं देशभक्ति-भावं समता क्रियाऽनुरागम् । धर्मान्धतां विराम तनुषे च लोकतन्त्रम् ॥ गण०॥ कार्ये प्रभाषणे च, स्वातन्त्र्यमेव लेखे । स्वत्वाधिकार-रक्षा सृष्टं त्वयैव सत्यम् ॥ गण ॥ त्वां प्राप्तुमेव सत्यं शान्तेश्च क्रान्तिशीलैः । आत्माहुति प्रदत्ता शूलिर्वृता मुदैव ॥ गण०॥ साम्राज्यवादिनस्ते, त्वां वीक्ष्य भीतभीता । कृत्यैर्निजेजघन्यैः भस्मान्तभावमाप्ता ॥ गणतन्त्र०॥ सम्पूर्ण-शक्ति-युक्तं लब्धं तु भारतीयैः । गणतन्त्रमेतदेवं क्रान्तिं तनोतु लोके ॥ गणतन्त्र०॥ गुण-गौरवाभिवृद्धिः, धन-धान्य-सौख्य वृद्धिम् । सद्भाव-स्नेह-वृद्धिः सिद्धिं तनोतु सद्यः ॥ गणतन्त्र०॥ त्वद्रक्षणेऽनुरक्ताः भक्त्याऽर्पिताऽऽत्मदेहा । क्रान्तेर्दवाग्नि-दूता कुर्वन्तु देश-स्वर्गम् ॥ गणतन्त्र०॥