अक्षर आकार:

गीर्वाणवाणी

Girvana Vani

गीर्वाणवाणी

(गीतिका) (भुजङ्गप्रयात वृत्तम्) इयं देववाणी सदा सेवनीया सदा पोषणीया सदा रक्षणीया । इयं भारतश्रीरियं देशकीर्तिः इयं देशवनद्यैर्वृता वन्दनीया ॥ इयं०॥ यदीष्टं भवे भारतस्याभिवृद्धिः स्वदेशस्य कीर्ति स्वदेशस्य मानम् । सदाऽध्यात्म-ज्योतिः प्रसारेण शान्तिं तदा देववाणीं वुधैः सेवनीया ॥ इयम् ॥ कथं शोभते देववाणी प्रकृष्टा कथं राजते देववर्यैः स्तुतेयम् । गुणानां निधाना बुधानां प्रधाना सुधीनां सदा ज्ञान-विज्ञान-दात्री ॥ इयं०॥ सदा संस्कृता सस्कृतेर्मूलमन्त्रः जनैः संस्तुता प्रेम-सद्भाव-दात्री । अधानां निहन्त्री सुधा-धाम-धर्त्री जनानां समस्तं मलं नाशयिनी ॥ इयं०॥ इयं भारते बद्धमूला प्रशस्ता स्वदेशे विदेशे स्तुता विज्ञवर्यैः । चरित्रोन्नतेर्भाव-सद्भावनीया सदा शिक्षणे दत्तचित्ता वरेण्या ॥ इयं०॥ पराधीनता-पाश-नष्टाऽप्यनष्टा, सदा दानवैः पीडिताऽप्यक्षतेयम् । सुधाऽऽगार रूपा बुधाऽऽधार-रूपा, गुणाऽऽकार-रूपा जनाऽऽह्लाद-रूपा ॥ इयं०॥ अजस्रं गुणाऽधायिनी ज्ञान-मूला, श्रुतेर्नाद-जुष्टा, प्रपुष्टाऽगमैश्च । सदाऽध्यात्म-पुष्टा, श्रिता दर्शनैश्च वृता ज्ञान-दीप्त्या, धृता धर्मधुर्यैः ॥ इयं०॥ श्रिता ज्ञानिभिर्वेद विद्योपलब्ध्यैः वृता योगिभिर्योग-ज्ञानाऽऽगमाय । श्रिता काव्यकारैर्रसाऽऽस्वाद-हेतोः, धृता नाटयकारैर्जनाऽऽल्हाद-हेतोः ॥ इयं०॥ इयं शान्ति-दात्री, इयं ज्ञानदात्री, इयं भारतोत्थान-तन्त्रं प्रकृष्टम् । इयं गौरवाऽधानहेतुः प्रकृष्टः इयं ज्ञान-ज्योतिः, सुविद्या प्ररोचि ॥ इयं०॥ इदं सस्कृतं देशबन्धस्य मूलम्, । इदं देश-प्रान्तादि भेदस्य हर्तृः । इदं भारतस्याक्षयं कोषजातम्, इदं शान्ति मूलं सदा पोषणीयम् ॥ इयं०॥