अक्षर आकार:

एत बालकाः दर्शयामि

Eta Balakah Darshayami

एत बालकाः दर्शयामि

एत बालकाः दर्शयामि वस्तेजो हिन्दुस्थानस्य, तेजो भारतवर्षस्य । अस्य मृत्तिका शिरसा वन्द्या, भूमिरियं बलिदानस्य । वन्दे मातरं, वन्दे मातरम् ॥ उत्तरभागे रक्षणकर्ता नगाधिराजो विख्यातः दक्षिणदेशे पदक्षालको महासागरः प्रख्यातः । पश्यत गङ्गायमुनातीरं परं पावनं भूलोके स्थाने स्थाने यद् दिव्यत्वं नैव सुराणामपि नाके एकमेव तत् स्थानं चैतत् देवानामवतारस्य ॥ १॥ रजपूतानामेतत् स्थानं खडे येषां अभिमानः धर्मरक्षणे युद्धे मरणं यैर्मन्यते सम्मानः । अत्रैवासीत् प्रतापवीरो विश्वेऽस्मिन् यो बहुमान्यः शीलरक्षणे भस्मीभूताः अत्रासङ्ख्याः पद्मिन्यः रजः सुपूतं वीरपदाब्जैः स्थानं चैतद्देशस्य ॥ २॥ वङ्गोऽयं यद्धरणीहरिता मनोहारिणी सर्वत्र निजराष्ट्रार्थं सिद्धा मरणे सन्ति बालका अप्यत्र रामकृष्ण-गौराङ्ग-विवेकानन्द-प्रमुखाः यत्रासन् । अरविन्दाद्याः क्रान्तिकारकाः शान्तिपूजकाः यत्रासन् जन्मभूरियं ``नेताजेः'' प्रख्यातस्य सुभाषस्य ॥ ३॥ इयं दृश्यतां महाराष्ट्रभूः यत्र शिवाजी राजासीत् यस्य भवानीकरवालेन म्लेच्छानां संहारोऽभूत् स्थाने स्थाने पर्वतभागे सामर्थ्याग्निः प्रकटोऽभूत् घोषो ``हर हर महादेव'' इति बाले बाले प्राविरभूत् कृतं हि गौरवरक्षणकार्यं शिवेन हिन्दुस्थानस्य ॥ ४॥ भक्तिमानयं दक्षिणदेशो गोदाकृष्णापरिपुष्टः गगनस्पर्धित-शिल्पकलान्वित-गोपुरभालैर्विभूषितः । अत्र विद्यते सुजनस्थानं सीतापति-पदपरिपूतम् । अत्र शङ्कराचार्याः वन्द्याः केरलभागे सम्भूताः विजयनगर-साम्राज्यमिहासीत् ख्यातं हिन्दूधर्मस्य ॥ ५॥