अक्षर आकार:

एकश्लोकि महाभारतं

ekashloki mahAbhArataM

एकश्लोकि महाभारतं

आदौ पाण्डवधार्तराष्ट्रजननं लाक्षागृहे दाहनं द्यूतं श्रीहरणं वने विहरणं मत्स्यालये वर्तनम् । लीलागोग्रहणं रणे विहरणं सन्धिक्रियाजृम्भणं पश्चाद्भीष्मसुयोधनादिनिधनं ह्येतन्महाभारतम् ॥ ॥ एकश्लोकि महाभारतं सम्पूर्णम् ॥