अक्षर आकार:

एकः श‍ृगालः वनं गच्छति

Ekah ShrigalaH Vanam Gachchati

एकः श‍ृगालः वनं गच्छति

एकः श‍ृगालः वनं गच्छति । बुभुक्षया पिपासया वनं गच्छति ॥ धृ॥ किं च करोति सः किं च करोति । अरे अत्र पश्यति अरे तत्र पश्यति ॥ कुत्र गच्छति सः कुत्र गच्छति । अत्र गच्छति सः तत्र गच्छति ॥ किं च पश्यति सः किं च पश्यति । सः पश्यति द्राक्षाफलम् ॥ किं च करोति सः किं च करोति । सः उत्पतति उत्पतति पुनः उत्पतति उत्पतति । किन्तु न लभते द्राक्षाफलम् । किं च वदति सः किं च वदति । आम्लं द्राक्षाफलम् ।