अक्षर आकार:

एहि रे समर्पयेम

Ehi Re Samarpayema

एहि रे समर्पयेम

एहि रे समर्पयेम मित्र ! मातृचरणयोः तनुतृणं धनचयं, भवतु रुधिरतर्पणम् । किं नु पश्यसि त्वदीय-मातृ-वदन-म्लानतां किमु ह्रिया, त्यज भियं, विक्लवः किमर्पणे ॥ १॥ मलयमारुतस्त्वदीयस्वागतं विधास्यति सनातनी परम्परा प्रेरिका भविष्यति । भवेम धन्यजीविनः समानचिन्तका वयं चल पुरः, सह मया, समाश्रय ध्रुवां धृतिम् ॥ २॥ वीरसूः शूरभूः स्थैर्यधैर्यभूरियं सखे न भीरुभूरियं न भोगलालसास्पदम् । नरोऽप्यवाप्तुमर्हतीह देवतासमानतां स्मर चिरं, भर धियं, साधयेम विक्रमम् ॥ ३॥ राष्ट्रमुद्धर्तुमेहि ध्येयसाधनव्रत ! मन्युरस्तु बलिपशुः कार्यदीक्षितो भव । धर्मसक्त कर्मनिष्ठ ॠषिकुलोद्भव सखे धर धुरं, दृढमते, याम ध्येयसिद्धये ॥ ४॥ - जनार्दन हेगडे