अक्षर आकार:

ध्येयपथिक साधक

Dhyeyapathika Sadhaka

ध्येयपथिक साधक

ध्येयपथिकसाधक कार्यपथे साधय मृदु हसन् मधुकिरन् मातरं सदा स्मरन् ॥ जीवनं न शाश्वतं, वैभवं न हि स्थिरं स्वार्थलेपनं विना, यत्कृतं हि तच्चिरं सरलता स्वजीवने चिन्तने सदोच्चता समाजपोषिता वयं समाजपोषकाश्चिरम् ॥ १॥ यच्च मनसि चिन्त्यते, यच्च कीर्त्यते गिरा तच्च मूर्तरूपताम्, एति नित्यजीवने जनन्यनन्यचरणयोः समर्पितस्वजीवनाः ध्येयसाधनव्रता वयं भवेम सङ्गताः ॥ २॥ स्मरत्विहाग्रजन्मनां, त्यागबलिसमर्पणं सिंहकुलसमुद्भवाः सिंहविक्रमा वयं सन्तु कष्टकोटयो भवतु विघ्नवर्षणं सकृत्प्रतिज्ञका वयं भजेम नो पलायनम् ॥ ३॥ - श्री जनार्दन हेगडे