अक्षर आकार:

देहि केशव देहि माधव

Dehi Keshava

देहि केशव देहि माधव

देहि केशव देहि माधव निर्मलचरित ! आशिषम् ॥ त्वत्पदविरचितसत्पथगमनं चिरकाङ्क्षितमभिलाषम् ॥ मधुरा वाणी सदयं हृदयं वद मे कथमुपलब्धम् ॥ सुदृढा निष्ठा महती वृत्तिः वद मे कथमुपलब्धा ॥ हिमवान् फाले जलधिः पादे वद वै कथमभिदृष्टः ॥ वनमालाङ्गं मुनिभिर्दृष्टं वद मे कथमभिदृष्टम् ॥ हिन्दुसमाजं शिथिलं दृष्ट्वा व्यथितं तावकहृदयम् ॥ मामकचित्ते तादृशभावः भाति कदा गाढं गाढम् ॥ पावनसंस्कृतिगङ्गा प्रवहति हिन्दोरिहाविरामम् ॥ कण इव तस्मिन् मामकविलयः वद मे भवति कदा ? ॥ - दो. प्रभाकरशर्मा