अक्षर आकार:

दयानन्दवीरो यतिर्भातु शश्वत्

Dayanandaviro Yatirbhatu Shashvat

दयानन्दवीरो यतिर्भातु शश्वत्

(गीतिका) (भुजङ्गप्रयातम्) दयानन्दवीरो यतिर्भातु शश्वद् गुणानां निधिर्वेद-शास्त्रोपदेष्टा । सदा संयमे रक्तधीर्धीर-चेता वरेण्यं शरण्यो मुनिः साधुवृत्तः ॥ दयानन्द०॥ सदा देशभक्तं सदा धर्मभक्तं सदा दीन-हीनाऽऽर्ति-नाशानुरक्तः । स्वदेशव्रतो देशभक्त्येक मूर्तिः स्वदेशाभिमानेन सन्दीप्तमूर्तिः ॥ दयानन्द०॥ सदा देशचिन्ता, सदाऽनाथ चिन्ता दरिद्रातुराणां समुद्धार-चिन्ता । गवां योषितां दुःख-नाशस्य चिन्ता सदा यस्य चित्ते स देवो वदान्यः ॥ दयानन्द०॥ न यस्यास्ति चित्ते भयानां विभीति न रोषाग्नि-दाहो न वा शोक शोषः । न यत्रास्ति चिन्ता स्वदेहस्य जातु सदा देशचिन्ता निमग्नं सधन्यः ॥ दयानन्द०॥ ऋषीणां मुनीनां सदाऽऽदर्श-पाता स्ववित्तस्य दाता, स्वदेहस्य दाता । सदा मातृभूमेः सुरक्षाऽनुरक्तो विदेशीय धर्मे प्रहारानुरक्तः ॥ दयानन्द०॥ सदेवाऽऽङ्ग्लभाषा सृति खण्डयन् सः सदा भारतीयं मतं मण्डयन् सः । चरिताभिमानं सदा दर्शयन् सः स्वदेशानुरागे रतो धर्म धुर्यः ॥ दयानन्द०॥ स्वदेशीय राज्यं मतं सर्वश्रेष्ठं विदेशीय-राज्यं सदाऽनर्थकारि । स्वदेशीय राज्ये सुखं शान्तिरिष्टा सदा स्वाभिमानं विकासोन्नती च ॥ दयानन्द०॥ कुरीति सदा दुःखद्वन्द्वादि-कर्त्री कुनीति सदा मानवाऽचार-हर्त्री । सदैवाऽन्धविश्वास मूला अनर्था वदन् देशहेतो पपौ यो विषं च ॥ दयानन्द०॥ सदा योषिता मान-रक्षाऽवसक्तः सदा देश-स्वातन्त्र्य-कार्यानुरक्तः । सदा आर्य धर्मं प्रचारानुरागी विरागी व्रती विश्वबन्धुत्व-मानी ॥ दयानन्द०॥ मुदा दुःखजातं प्रसेहे परार्थं जहौ देशहेतोः सुखं चार्थजातम् । सदा क्रान्ति-सन्देशदं तं नतोऽहं सदा मातृभूः दत्त चित्तं श्रितोऽहम् ॥ दयानन्द०॥