अक्षर आकार:

दयानन्दः स्वामी जयति भुवने भास्कररुचिः

Dayanandah Svami Jayati Bhuvane Bhaskararuchi

दयानन्दः स्वामी जयति भुवने भास्कररुचिः

(शिखरिणी वृत्तम्) गुणानामाधारो विदित-श्रुति शास्त्रार्थ-निचयः समुद्धर्ता भर्ता पतित-जन-चित्ताऽर्ति-हरणः । श्रयन्नात्मोत्सर्ग पर-हित-रतः स्वार्थ-विरतो दयानन्दः स्वामी जयति भुवने भास्कर-रुचिः ॥ 'दयायाः आनन्दो' विलसति गुणानां समुदयः, 'ऋषि'-र्वेदार्थानां गहन-मननावाप्त-शुभ धीः । श्रुतीनां सिद्धान्तान् विशदयति वेदार्थ विवृतौ, सरस्वत्या स्रोतो जयति यतिवर्यो गुणनिधिः ॥ अनाथानां नाथः शरणमबलानां गुणि-गुरुः, विनेता भीतानां सुपथमुपनेतां च सुधियाम् । शरण्यो दीनानां गुणि-गण-वरेण्यः श्रुति-मतिः, दयानन्दो योगी जयति भुवने भास्कर-रुचिः ॥ प्रणेता भाष्याणां श्रुति-गदित-तत्त्वार्थ-निलयो यति सत्यार्थं यः प्रकटयति 'सत्यार्थ' सुकृतौ । श्रुतीनां तत्त्वार्थं विशदयति 'ऋग्भाष्य'-विवृतौ दयानन्दो वाग्मी जयति भुवने भास्कर-रुचिः ॥ ऋषीणां प्रत्नौ यः सरणिमनुसृत्याऽशु विदधे श्रुतीनां शिक्षार्थं गुरुकुल-ततिं ज्ञान-रुचिराम् । विरुद्धं वेदानां तदिदमिह हेयं सुपथगैः, दयानन्दो दान्तो जयति भुवने भास्कर-रुचिः ॥ जगन्नेता धीरः सकल-गुण-राशिर्बुध-सुहृद्, नदीष्णो वेदानां जनहित कृतं-स्वार्थ-विरहः । अविद्याया ध्वान्तं व्यपमयदिहाऽध्यात्म-सुदृशा मुनीन्द्रो व्यारेजे सकल-सुख-सौभाग्य-सरणि ॥ समाज त्वार्याणां प्रति-नगरसंस्थापयदिहं, समुन्मूल्याऽऽमूलं श्रुति विपथ-पाखण्ड-निचयम् । सदादर्शं प्राच्य भुवि विनिदधे शान्ति-सुखदं दयानन्दो धीरो जयति भुवने भास्कर-रुचिः ॥ गवां रक्षा कार्या, पदमनुविधेयं च सुधियाः, गुणा ग्राह्या हेया सततमशिवा दोप-निकराः । सदाऽऽर्याणां भाषा प्रचरतु भवे भव्य-गुण-वा, य एवं व्याचरयौ जयति स यतिर्भास्कर-विभौ ॥ जने ह्यस्पृश्यत्वं नहि श्रुति-मतं नापि हित-कृद्, विजातेर्जातेश्च बहुविध-विभागो नहि हितः । विदेशीय राज्यं नहि मतिमतां मान-गुण-दं, मनोज्ञः स्वातन्त्र्यं निज-बलि-कृतेनापि सुखदम् ॥ सुशिक्षा नारीणां, विविध-मत शुद्धिं प्रचलयन्, पदाऽऽक्रान्त-त्राणः विदधदनिशं जीवन-पणैः । 'समं लोके चाऽऽर्यं कुरुत' इति लोकानुपदिशन्, दिवं यातो जीवत्यमर इव वन्द्यो यतिवरः ॥