अक्षर आकार:

दलितोद्धारः

Dalitoddhara

दलितोद्धारः

(भुजङ्गप्रयात वृत्तम्) इमे बान्धवाः भ्रातरं प्रेमपात्रं कृशा हीनवित्ता क्षुधा हीमवृत्ता । सदा शोक-ग्रस्ता सदा दैन्य ग्रस्ता सदैवाऽऽयजातेस्त्विमे रत्नभूता ॥ इमे जाति-भेदेन वर्ग-प्रभेदैः सदा पीडयमाना सदा शोष्यमाणाः । सदोच्चावचैर्भेदभावैर्विनष्टा, इमे पोषाणीयाः इमे तोषणीयाः ॥ इयं हिन्दु-जाति प्रणष्टा प्रभेदैः सदा भेदभावैः स्वयं कृश्यमानाः । न देशस्य जातेस्तु चिन्ता कदाचित् सवर्णाऽसवर्णेषु नाऽभेद-बुद्धिः ॥ इयं द्वेप-बुद्धिः, इयं भेद बुद्धिः इयं स्पृश्यताऽस्पृश्यतायाश्च बुद्धिः । इयं चोच्च नीचाऽऽश्रया हीनवृत्तिः सदा हिन्दुजातेस्तु सहारकर्त्री ॥ दयानन्दवर्यो मुदा दीन-त्राता, सदा हिन्दुजातेश्च प्राण-स्वरूपम् । विजातीय-लोकैहृतान् वीक्ष्य चेतान् शुचाकान्त चित्तो न लेभे तु शान्तिम् ॥ सदा हिन्दुजातेस्तु क्षीणामवस्थां निरीक्ष्याऽवदद् धर्म-जातेरधीशान् । इयं भेद-बुद्धिः कुठारावघातं स्वपादे, कदाचिद् धिया चिन्तनीयम् ॥ न चैते विमूढास्तु जातेरधीशाः सदा जाति-वादान्ध प्रज्ञा-विवेकाः । न जातेर्हितं जातु ते कामयन्ते स्वधर्मस्य हानिं न ते चिन्तयन्ति ॥ सुधीर्गान्धिवर्योऽपि हीनामवस्था निरीक्ष्यावदद् धर्म धी-हीन-चित्तान् । इमे भ्रातरो रत्नभूताश्च जाते समानाधिकारेण संरक्षणीया ॥ विधर्मं गतास्ते शुचः कारणानि, सृतिं यावनीमाङ्गली वा श्रयन्ते । विधर्मं श्रिता लोभ-मोहादि-हेतो, स एवाऽर्यं-जातिं क्रुधाः नाशयन्ति ॥ अये ! आर्य-जातेर्युवानो बुधाश्च हितं वाक्यमेतत् तु श‍ृण्वन्तु स्निग्धाः । इमे शिल्पिनः कर्मिणः शूद्रप्रख्याः सदा पोषणीया सदा तोषणीया ॥