अक्षर आकार:

दीपनमस्कारः

Dipanamaskarah

दीपनमस्कारः

ॐ नमो ज्ञानदीपाय शिवाय ब्रह्मतेजसे । कविष्णुहररूपाय नमः श्रीगुरुमूर्तये ॥ १॥ अज्ञानध्वान्तपटलविध्वंसनदिवाकरान् । सच्चिदानन्दबोधैकसुधाम्बुधिकलानिधीन् ॥ २॥ आधिव्याधिभयग्रस्त प्रपन्नजनरक्षकान् । वन्दे बद्धाऽञ्जलिः श्रीमत्परिज्ञानाश्रमान् गुरून् ॥ ३॥ इलापातालनाकस्थपूजित श्रीशिवेशितुः । चरणाम्बुरुहन्यस्त मनोवाक्कायसम्भ्रमान् ॥ ४॥ ईश्वरान् वेदवेदाङ्गवेदान्तज्ञानिनां धुरि । छात्रवृन्दसुखाधारान् भजे श्रीशङ्कराश्रमान् ॥ ५॥ उपमाभावमहिमजितसर्वारिमण्डलान् । सारस्वतद्विजवरैराराधितपदाम्बुजान् ॥ ६॥ ऊर्जस्वलान्महामोहग्राहग्रासैककर्मणि । नमाध्यानन्दरूपान् श्रीपरिज्ञानाश्रमान्गुरून् ॥ ७॥ एकस्मिन्नद्वितीये च ब्रह्मण्याविष्टमानसान् । यमादियशेसम्पत्तिभ्राजमानमुनीश्वरान् ॥ ८॥ ऐश्वह्वर्याद्यखिलार्थानां दायकान् करुणानिधीन् । ईडे योगाम्बुधिक्रीडासक्तान् श्रीशङ्कराश्रमान् ॥ । ९॥ ओजस्विनः सुतपसा द्वैताब्धिवाडवानलान् । स्वाऽघ्र्यब्जशरणोद्धर्तॄन् स्तौमि श्रीकेशवाश्रमान् ॥ १०॥ औपाधिके कर्मगर्ते मोहितभ्रान्तचेतसाम् । समुद्धरणधौरेयान् वन्दे श्री वामनाश्रमान् ॥ ११॥ अञ्जसा तमसः पारमनायासेन सर्वदा । नृपशून्ययतो नौमि कृष्णाश्रमयतीश्वरान् ॥ १२॥ अहं वन्दे मनोवाग्भ्यां पाण्डुरङ्गाश्रमान्मुहुः । संस्तवैः परया भक्त्या विविधैर्भक्तिलक्षणैः ॥ १३॥ करकञ्जभवांस्तेषां वन्दे धर्मधुरन्धरान् । आनन्दरूपिणः श्रीमदानन्दाश्रमसदुरून् ॥ १४॥ खब्रह्माविष्टहृदयान् द्वैतध्वान्त दिवाकरान् । प्रशान्त दान्तोपरतान् परिज्ञानाश्रमान्नुमः ॥ १५॥ गरिमा दृश्यते येषां वेदान्तार्थनिरूपणे । संवित् ज्ञानतपोदीप्तान् निगमागमपारगान् ॥ १६॥ संविद्देवी समासक्तान् श्रुत्यन्तपथदर्शकान् । सद्योजातान् नमाम्यत्र शङ्कराश्रमदेशिकान् ॥ १७॥ ॥ भोः पराक् स्वामिन् पराक् ॥ इति दीपनमस्कारः सम्पूर्णः ।