अक्षर आकार:

दानलीलाष्टकम्

dAnalIlAShTakam

दानलीलाष्टकम्

सदा चन्द्रावल्या कुसुमशयनीयादि रचितुं सहासं प्रोक्ताः स्वप्रणयिग्रहचर्यः प्रमुदिताः । निकुञ्जेष्वन्योन्यं कृतविवधतल्पेषु सरसां कथास्वस्वामिन्या सपदि कथयन्ति प्रियतमाम् ॥ १॥ अशेषसुकृतोदयैरखिलमङ्गलैर्वेधसा मनोरथशतैः सदा मनसि भावितैर्निर्मिते । अहन्यतिमनोहरे निजगृहाद्विहारेच्छया सखीशतवृताऽचलद्व्रजवनेषु चन्द्रावली ॥ २॥ समुद्ग्रथितमालतीकुरबकादिपुष्पावली- गलत्परिमलोन्मदभ्रमरयूथसन्नादितम् । उदारमतिचित्रितं मृगमदादिभिर्बिभ्रती मनोभवमदापहं किमपि केशपाशं सखी ॥ ३॥ श्यामेन्दोरनुरूपां विधिरचितां तारकामहं मन्ये । यत्तत्करनखकिरणो न जातु सख्यस्त्यजन्तीमाम् ॥ ४॥ कुङ्कुममृगमदमलयजचित्रितकुसुमं तदीयधम्मिल्लम् । नो किन्तु कुसुमधनुषस्तूणीरं सर्जितं विधिना ॥ ५॥ न धम्मिल्लो मौग्ध्यामृतजलमुचामेष निचयो न पुष्पाणीमानि त्रिदशपतिमौर्वीपरिणतिः । न मुक्तागुच्छानि प्रकटसुखगात्रः करतरो न काश्मीरोद्भूता सुभगतररेखा तडिदियम् ॥ ६॥ निसर्गसुन्दरोऽप्यालिसूक्ष्मचित्राम्बरान्तरे । गूढो भाव इवैतस्याः सोऽदृश्यत विलक्षणः ॥ ७॥ मत्समर्पितसिन्दूररेखोपरि परिस्थिता । मुक्ताफलावलीमाला सीमान्ते बिभ्रती बभौ ॥ ८॥ इति श्रीविठ्ठलेश्वरविरचितं दानलीलाष्टकं समाप्तम् ।