अक्षर आकार:

चिरनवीना संस्कृता

Chiranavina Samskrita

चिरनवीना संस्कृता

चिरनवीना संस्कृता एषा, गीर्वाणभाषा चिरनवीना संस्कृता एषा ॥ महतो भूतस्य निःश्वसितं अस्ति यस्याम्, अतिपुरातन-वेदसाहित्यं शास्त्रपूरैः स्मृतिविचारैः वरकवीनां काव्यसारैः चित्रिता मञ्जुला मञ्जूषा, मञ्जुला भाषा ॥ १॥ वाल्मीकि-व्यास-मुनिरचितं, रामायणं महाकाव्यं महाभारतं क्लैब्यकिल्बिष-कलित-पार्थं कार्यविषये योजयन्ती अस्ति यस्यां भगवती गीता, भगवता कथिता ॥ २॥ मातृभाषा मातृभाषाणाम्, भवितुमर्हा राष्ट्रभाषा भारतीयानाम्, भवतु भाषाद्वेषनाशः सर्वथा उद्घोषयामः भारतीया भारती एषा, अनुपमा सरसा ॥ ३॥ - नारायणभट्टः