अक्षर आकार:

चमूः प्रवृत्ता संस्कृतबन्धूनाम्

Chamuh Pravritta Samskritabandhunam

चमूः प्रवृत्ता संस्कृतबन्धूनाम्

चमूः प्रवृत्ता संस्कृतबन्धूनां संस्कृतयष्टिधरा संस्कृतिधुरन्धरा ॥ न ताडयति कायं न भेदयति हृदयम् । निर्मलमनसा संस्कृतवचसा विकासयति चित्तम् ॥ १॥ ग्रामे नगरे सञ्चरति संस्कृतशिबिरं निर्माति । सम्भाषण-जागर्ति-हेतुना पुरो नयति राष्ट्रम् ॥ २॥ बाला वृद्धा गृहिणी गृहिणो विहाय जातिवयोभेदम् । प्रसार्य लक्षायुतबाहून् रक्षति संस्कृतजननीम् ॥ ३॥ - गु. गणपय्यहोळ्ळः