अक्षर आकार:

ब्रह्मविदां सरसामृतभाषे

Brahmavidam Sarasamritabhashe

ब्रह्मविदां सरसामृतभाषे

ब्रह्मविदां सरसामृतभाषे ब्रह्मसुते श्रुतिभारती वन्दे ॥ ध्रु॥ ग्रन्थनिबन्धिनि सन्मुनिवन्दे बोधदिनेशविभेनिरवद्ये । मानसवारिजवासिनिविद्ये मन्मथीभाषिणि भारती वन्दे ॥ १॥ बिन्दुकरम्बितचन्द्रललाटे सर्गविसर्गविभूषितकण्ठे । हीरकरश्मि सुरञ्जितनासे कर्णविहारिणि भारती वन्दे ॥ २॥ तालुतले भ्रमरीव नटन्ते वेदकदम्बशिखा सुरणन्ते । भावविबोधिनि भव्यसुवर्णे हृद्यपदे सुरभारती वन्दे ॥ ३॥ मूर्धकिरीटविटङ्कितकान्ते स्मेरसिताम्बुजकुट्मलएअन्ते । सान्द्रसुधाप्लुतबिम्बफलोष्ठे विश्वविमोहिनि भारती वन्दे ॥ ४॥ सन्ततसुस्वरमूर्छनताने व्यञ्जनकिङ्कीणीघोषविताने । पद्यतरङ्गिणी गद्यनिबन्धे (ज्ञानप्रदायिनि) भारती वन्दे ॥ ५॥ रचयिता - डाॅ शैलेशकुमार तिवारी गायक - आचार्य विशालप्रसाद भट्ट संस्कृतभारती उत्तराञ्चल